पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य- विवेकानन्दः २६२ सम्प्रदाये तथाऽन्यप्रतिष्ठानेषु योगदान वार्तालापालोचनादिकं सम- जायत । स 'हिन्दुधर्मस्य साधारणभित्ति:' 'वेदान्तः' तथा 'भक्ति' एषां सम्बन्धे त्रीणि सारगर्भाणि व्याख्यानानि प्रदाय सर्वश्रेणीनां श्रोतृषु विस्मयमुदपादयत्। व्याख्यानश्रवणार्थ इयन्तोऽधिका जना एकत्र संकलिता अभूवन् यत् नियन्त्रणं दुष्करं समपद्यत । सिखानां एकस्यां शद्धिसभायां सम्मिलितो भूत्वा तेषामुदार- भावं विभाव्य स्वामिनः महान् प्रमोदोऽभूत् । ये सिखाः कारण- विशेषात् परधर्मं प्रविश्य पश्चात्तापं विधाय पुनः स्वधर्म परावर्तितु- मभ्यलषन् तेषामेव कृते तादृश्या: शुद्ध व्यवस्था अवर्तत । लाहौरे प्राध्यापकस्तीर्थरामगोस्वामी ( यः पश्चात् स्वामी रामतीर्थ इति नाम्ना प्रथितोऽभूत् ) स्वामिनि विशेषरूपेणाकृष्टो बभूव | स्वामि- संपर्क तस्य जीवने एको महान् शुभ मुहूर्त आसीत् । स स्वामिनं शिष्यैः साकं स्वगृहे भोक्तु आमन्त्रयत । भोजनान्ते स्वामी गातुं प्रावृत्तः – “यत्र रामस्तत्र कामो नास्ति, यत्र कामः तत्र न रामः । ” गानस्य मर्मवाणी तीर्थरामस्यान्तरे वारं वारमाघातं कर्तुं प्रावर्तत | स निजं काञ्चनवटीयन्त्र उपहाररूपेण स्वामिने प्रादात् । स्वामी तत् जग्राह - परं समकालमेव तत् तीर्थरामस्य कञ्चुककोशे न्यक्षिपत् । अवदच्च – “समीचीनं मित्र ! अत्रैवाहं तद् यन्त्रं इतः परं व्यवहामि ।” - स्वामिसम्पर्क समागतस्य तीर्थरामस्यान्तरे सुप्तं वैराग्यं समुद्दिदीपे । "क्षणमपि सज्जनसङ्गतिरेका भवति भवार्णवतरणे नौका” इदं आप्तवाक्य सार्थकं बभूव स्वल्पैरेच दिवसैः सः वैतनिकत्वं विहाय संन्यास जग्राह । धर्मप्रचारार्थं अमेरिकामपि ययौ । अनेक धर्मग्रंथरचनामपि चकार सः । उत्तरे भारते तस्य महान् शिष्यसम्प्रदायः वर्तते । | अस्य व्याख्यानस्य संचारे स्वामिनः शरीरं सविशेषं अस्वस्थं संवृत्तम् । स नूनं दैवबलेन सर्व कार्य चालयति स्म । लाहौरे,