पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

२२ रामकृष्णमिशन प्रतिष्ठायाः कतिपयदिवसानन्तरं १८८७ ई० वर्षस्य मईमासस्य ६ तारिकायां स्वामी चिकित्सकानां परामर्शेन कतिचित् सतीर्थ्यान् समादाय नैनीतालमार्गेण अलमोडां गन्तुं विवशोऽभूत् । सेवियरदम्पती मिसमूलरप्रभृतिपाश्चात्त्यशिष्याश्च पूर्वमेवालमोडां जग्मुः । अलमोडानिवासिनः महता समारोहण सम्मानेन सह स्वामिनः स्वागतमाचरन् । तदुत्तरे स तपोभूमेहिमालयस्य महिमानं कीर्तयन् (तत्रैकस्य मठस्य स्थापनेच्छां प्राकटयत् ।। हिमाल यमुपेत्य स्वामी भृशं प्रसन्नोऽजायत । तस्मिन् विविक्ते स्थाने निवसन् स निजभाविकर्मपद्धते: साकारताधानविषये विचार कर्तुं प्रवृत्तः । यदान्दोलनं स प्राचालयत् तदुन्नतिपथं नेतुं तदीयशक्तः पर्याप्तोऽपचयः समजायत । तेन प्रोक्तम-"एक एव चिन्ताग्निः मन्मस्तिष्क ज्वलति । सोऽस्ति भारतस्य जनसाधारणस्य उन्नतिसाधनं तथा तदर्थ यद् यन्त्रं अहं अचालयम् तस्य कियान् अंशो मया सम्पादितः ? इति । "बालका यया रीत्या दुर्भिक्षे सेवाकार्य प्रवतयन्ति दुःखिनां तथा निर्धनानां कार्य कथं कुर्वन्ति तद् विलोक्य मन आनन्दसंभृतं जायते । ते प्राणानां ममत्वं विमुच्य अस्पृश्यानां विपूचिकाग्रस्तानामपि रोगिणां शय्यायामासित्वा तत्सेवां कुर्वन्ति । बुभुक्षितदरिद्राणां, एतावदवधि चण्डालानां मुखेऽप्यन्नं ददति।" इयं दरिद्रनारायणस्य सेवैव विराटपुरुषस्य पूजा वतते । ... स्वामी अमेरिकातः भारतं परावृत्य तत्र पादनिक्षेपसमय एव भारतवासिनः विशेषतो युवकान् मातृभूमेः सेवायां जीवनस्य उत्सग