पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः भारतीय संस्कृतेः प्रचारार्थम् अनेके ग्रंथाः प्रकाशिता अभवन् । पाश्चात्त्य देशेषु विशेषरूपेण भाषण- कक्षा-आलोचना-ग्रन्थप्रकाशनानां माध्यमेन धर्मसंस्कृत्योः प्रचारस्य कार्य कृतम् । एवं रीत्या विवेकानन्दः मानवजातेः कल्याणार्थं यत् रामकृष्णमठ- मिशनयन्त्रं समचालयत् तत् अग्रगतेः पथि निर्जगाम । स्वामी अकथयत् – “इदं यन्त्रं कोऽपि रोद्धू न शक्नुयात् ।” -*०*- २५८ per