पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः समस्तो बङ्गदेश, कलिकत्तानिवासिनः तथा गुरुभ्रातरः स्वामिनं वत्रिरे । परन्तु तस्य क्षणमात्रोऽध्यवकाशो नासीत् । स निरन्तरं स्वात्मानं वितरितुं प्राक्रमत। शतशो मनुष्याः तत्सन्दर्शनार्थमाजग्मुः | अनेकस्थानेभ्यो निमन्त्रणपत्राण्यपि समागतानि । स सङ्घटनात्मक कार्ये सत्वरं मनः प्रावर्तयत् । विभिन्न स्थानेषु केन्द्रस्थापनम्, सेवाकार्यम्, शिक्षाप्रवर्त्तनम्, कार्यकर्तॄणां संग्रहणम् एवमादीनि तत्कार्यान्तर्गतान्य- भूवन् । विराड्-योजना तदये साकारतां प्रापद्यत । समस्तं भारतं तस्य प्रबोध्यमवर्तत तथा समृद्धं समुन्नतं बलवच्च विधेयम् । गणोन्नति-जाति- भेददूरीकरण-नारी कल्याण-सांस्कृतिक जीवनपरिपुष्टिप्रभृति संघटनमूला योजनास्तच्चिन्ताविषया अभूवन् । २४९ - प्रतिदिवसमने के विशिष्ट नागरिकास्तन्मिलनार्थं समागमन् । तैः सह तेषां विषयाणामालोचना अजायन्त । स बभापे – “मम कार्य भवेत् विद्यदिव क्षिप्रं वज्रमिव दृढच ।" तस्य समयो न्यून आसीत्, कार्यमसोममवर्तत । अस्मात् कारणात् स यदा कदा अधीरोऽजायत । फरवरीमासस्य २८ तारिकायां कलिकात्तानागरिकाः स्वामिनोऽभिन- न्दनमकुर्वन् । शोभाबाजारगते राजराधाकान्तदेवस्य प्रासाद विस्तृताङ्गणे समाहूतायां सभायां नगरस्य प्रथिता व्यक्तयः एवं छात्रसमाजाः संभूय पञ्चसहस्रस्त्रीपुरुषाः समवेता अभूवन् । सभायामुपस्थित एव स्वामिनि सभापतिः राजा विनयकृष्णदेवः तस्मै स्वागतं निवेदयन् प्राह - "भारतस्य जातीयजीवने एष पुरुषसिंह: अतुलनीयां कीर्तिमस्थापयत् । लक्षेषु कदाचित् एतादृशः एकः असाधारणो महापुरुष : सन्दृश्यते । ” तदनन्तरं सः अभिनन्दनपत्रं वाचयित्वा एकस्यां रजतमंजूषायां तत् निधाय स्वामिनो हस्ते प्रदत्तवान् । स्वामी उत्थाय जन्मभूमेः बन्दनामकरोत् । “जननी जन्मभूमिश्च स्वर्गादपि गरीयसी" इत्यभिधाय प्रणामं कुर्वन् कलिकात्तानिवासिनः सम्बोधयन् अभाषत “अद्याहं युष्माकं पुरः संन्यासिरूपेण नास्मि उपस्थितः, नापि