पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४४ युगाचार्य-विवेकानन्दः वोचत् "दुर्बलतैव पापमस्ति । उपनिषदः बलप्रदशिक्षाया अवलम्वेनैव जातीयजीवनस्य उन्नतिः सम्भवा भवति । उपनिषद उपदेशोऽस्ति- 'मनुष्य उत्तिष्ठ, जागृहि, वीर्यमवलम्बस्व' । संसारसाहित्ये 'अभी:'- मन्त्रम्योपदेशः उपनिषद्येव उच्चारितः । उपनिषदि कथिता तेजस्वितैव अस्मज्जीवने अधुना विशेषरूपेण परिणमनीया " स्वामिनो वाणी विपुलया विस्फोटसंभावनया पूर्णा आसीत् । श्रोतॄणां हृदये आवर्तस्य सृष्टिरभवत् - अग्निः संदिदोपे । स्वामी नवदिनपर्यन्तं मद्रासमध्यवसत् । तस्मिन् समये स अभिनन्दनानां उत्तराणि प्रददौ तथा पञ्च भाषणान्यपि अकरोत्- 'मदीया समरनीति:' 'भारतीयजीवने वेदान्तस्य प्रयोग : ' 'भारतस्य महापुरुषा:' 'अस्माकं वर्तमानं कर्तव्यम्' तथा 'भारतस्य भविष्यम्' । सागरतीरे यस्मिन् भवने स्वामी न्यवसत् तत् सदा दर्शनार्थिभिः पूर्णम- तिष्ठत् । तं दृष्ट्दैव जनाः साष्टाङ्गं प्राणमन् एवं बहुभिर्विधाभिः आन्तरिक श्रद्धां न्यवेदयन् । तद् दृश्यं नितान्तं मर्मस्पर्शि बभूव तथा तेन स्वामी अतिमात्रमेव अभिभूत आसीत् । यद्यपि स्वामी पृथिव्याः तिसृणां श्रेष्ठनातीनां महोच्चसम्मानस्य अधिकारी बभूव तथाऽपि स तं सम्मानं महता विनयेन प्रतिजग्राह । एकस्य मानपत्रस्योत्तरे स्वामिना प्रोक्तम्- ' अभिनन्दनपत्रे यानि सुन्दराणि विशेषणानि प्रयुक्तानि तेषां कृते अहं कथं हृदयस्य कृतज्ञतां प्रकटीकुर्याम् ? न जाने । अहं प्रार्थये यत् प्रभुः मांसाहं विदधातु तथाऽहं यावज्जीवनं स्वधर्मस्य एवं मातृभूमेः सेवां कर्तुं शक्नुयाम् ।.." स्वामिन ओजस्विभाषणं भारतवासिनां जीवने विप्लवं जनयामास

कोलम्बोतः अलमोडापर्यन्तं तथा भारतस्यान्यस्थानेष्वपि स्वामी या भाषणानि व्यतरत् तेषां स्वल्पीयसोऽप्यंशस्य अस्मिन् ग्रन्थे समावेशनं सम्भव नाभूत् । तानि भाषणानि 'श्रीरामकृष्ण मिशन-नागपुरतः' प्रकाशिते स्वामि-