२४५ युगाचार्य- विवेकानन्दः जातीयतावादस्य निर्भीक जागरणं सङ्गटनस्यान्तः नवीनं रूपमग्रहीत् । यद्यपि राजनीत्या सह तस्य कोऽपि सम्पर्को नाभूत् तथापि स्वामिनो वाणी केन्द्रादेव तद् जातीयं जागरणं सक्रियमुद्भवत् । भारतीयजाती- यान्दोलनस्य समकालिकीनां एवं पारिपाश्विकीनां घटनानां विश्लेषणेन ज्ञायते यत् ऊनविंश्या: शताव्द्या अन्तिमेंऽशे स्वामिविवेकानन्दस्य समुद्बोधकवाण्या भारतस्य जातीय-सामाजिकजीवनयोः गतिहीन- स्थितौ प्रचण्ड आघातः अक्रियत । तदाविर्भावस्य तथा तद्वाणीप्रचारभ्य च समयादेव जातीयजागरण-गणाभ्युत्थानयोः प्रचेष्टायां एका नूतना प्रेरणा संलक्ष्यते । सांप्रेरणा देशवासिसाधारणमनुष्यानपि निजाभोष्ट- सम्बन्धे प्रोद्बुद्धानकरोत् । मानवान्तः सुप्तं भगवन्तमपि सा जागरया- मास । प्रभावशालिभिः स्वल्पैर्जनैरवहेलितानां तथा अपमानितानां जनसाधारणानामन्तरेव स भविष्यद् भारतं ददर्श अत एव स्वामी तानेव साधारणान् जनान् निज-निजभूमिकां ग्रहीतुं समाह्वयत् । - "नवीनं भारतं निर्गच्छेत् वणिजामापणात्, भर्जकस्य भ्राष्ट्रनिकटात्, यन्त्रालयात्, हृट्टाद् अथवा विपणेः अथवा गुल्म-कानन पर्वतेभ्यः ।” तस्याग्निमयवाण्या; स्पर्श; विवेकानन्दवक्तृताग्रन्थे द्रष्टव्यानि । तेषु भाषणेषु प्राप्यते । भारतस्य
- जनशिक्षाया एवं गणोन्नतेरुपर्येव जातेर्भाग्यं पूर्णतया निर्भर मवतिष्ठते ।
उपेक्षितानां कृषकाणां तन्तुवायानां कर्मकराणां अस्पृश्य- निम्नश्रेण्या जनानामुन्नतेरु पर्येव स्वामी विशेषगुरुत्वस्यारोपमकरोत् । तस्य वाणी- रचनावल्योरन्तरे वयमस्मिन् सम्बन्धे बहून् विषयान् लभामहे । तेन प्रोक्तं- 'साधु स्मरत ! सर्वेष्वपि देशेषु एत एव जातेर्मेरुदण्डाः सन्ति । वेदान्तस्य जन्मभूमौ भारतवर्षे जनसाधारण: चिराय सम्मोहित इव तिष्ठति । तेषां स्पर्शः अपवित्रः तथा सङ्गः अशचिः विद्यते ।... युरोपस्यानेकदेशेषु पर्यटनसम दरिद्रजनानां सुख-स्वच्छन्दतां तथा शिक्षा-दीक्षां वीक्ष्य भारतस्यासहायानां