पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्द: । मद्रासनगरं तदर्थमधीराग्रहेण प्रतीक्षमाणमास्त । नगरस्य विभिन्न- स्थानेषु सप्तदश विजयतोरणा निर्मिता आसन् । गृहाणि द्वाराणि च कदलीस्तम्भैः तथा पुष्पमालाभिः सज्जितानि वभूवुः । भवनानां मठानां तथा मन्दिराणामुपरि विजयवैजयन्त्य उड्डीयन्ते स्म । समस्तं नगरं उत्सवोन्मत्तं बभूव । स्थाने स्थाने विविधवर्णै: स्थूलस्थूलाक्षरैरालिखि- तम् – “पूज्यविवेकानन्दो दीर्घायुरस्तु, हे भगवत्सेवक ! हे अतीतस्य ऋषे स्वामिन् विवेकानन्द ! भवतः स्वागतमस्ति । भवान् नवजाग्रद् भारतस्य सादरां संवर्धनां स्वीकरोतु । भो शान्तेरप्रदूत श्रीरामकृष्णयोग्य- शिष्य ! पुरुपसिंह विजयिन् वीर ! आयाहि —" इत्यादि । २४२ फरवरी ६ प्रातःकाले जाते एव वृन्दशो जनाः पुष्पमाला एवं ध्वजानादाय वाष्पयान विश्रामालयाभिमुखं प्राचलन् । मद्रासस्य विशिष्टाः पुरुषाः विश्ववरेण्यस्य संन्यासिनः स्वागतं कर्तुं समवेताः | बाप्पयाने यथास्थानमागत्य स्थित एव कण्ठसहस्राद् निर्गतेन जयध्वनिना एवं आनन्दकोलाहलेन च आकाशं गुंजितमभूत् । स्वागतसमितिसदस्याः स्वामिनं पुष्पमालाभिरभूपयन् । दर्शकजन- चक्रव्यूहं कथमपि विभिद्य स्वामी निकटस्थशकटमानीतः । शकटे स्वामिनः निजसतीथ्यौँ शिवानन्दनिरंजनानन्दौ उपाविशताम् । युवकाः शकटस्य घोटकान् विमोच्य जयध्वनिघोपाभ्यन्तरतः स्वामिनः शकटं कर्पन्तः समुद्रतीर- वर्तिनीं 'कासूल कारनान' - नामिकां प्रासादोपसामट्टालिकां समानयन् । स्वामिशिरसि पुष्पवृष्टिः पतितुं प्रावर्तत । असंख्याः स्त्रीपुरुषाः नारि- केलानि तथा अन्यान्यनेकानि फलानि समानीय स्वाभिचरणयो- रारोपयन् । स्थाने स्थाने महिलाः कर्पूरं दीपञ्च संज्यालय आरार्तिकं पर्यवतारयन् | तासां श्रद्धां तथा हार्दिकतां विलोक्य स्वामी विह्वलतां गतः । सार्धनववादनावसरे शकटे "कासूल कारनान" इत्यत्र समायाते “मद्रासविद्वन्मनोरंजिनी" -सभाधिकारिणः स्वामिनं अभिनन्दन्तः एकं संस्कृतमानपत्रमार्पयन् ।...