पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४१ युगाचार्य- विवेकानन्दः चितवान् –“मनुष्याणामन्तरे सर्वेषां मानव एव श्रेष्ठः ★ मान्तर्जातिकदृष्ट्यैव करणं वाणीसम्बन्धे स जगाद- .. ईश्वरस्य दर्शनमेव यथार्थमोश्वरदर्शनम् । अस्ति । जातीयसमस्यानां समाधान- सम्भवं वर्तते” इत्यादि । स्वामिनः अभय- .... "तस्य भाषणे एवं रचनान्तराले एकः स्वरः सदा ध्वनितो जायते सोऽस्त्यभयम्, अर्थात् 'अभयो भव' 'वीरो भव' 'दुर्बलतां मुञ्च' । मनुष्यं कदाऽपि स शोचनीयं पापिनं नाचष्ट । प्रत्येकमनुष्यस्यान्तरे दैव-शक्तिः विराजते । मनुष्यः कुतो बिभीयात् ? संसारे यदि किमपि पापमस्ति तर्हि दुर्बलता एव तत् पापमस्ति । दुर्बलतां जहीहि — उपनिषदो महती शिक्षा इयमेवासीत् । भयादेवामङ्गलस्य तथा दुर्बलताया जन्म भवति । स्वामी कथयामास – “वर्तमाने तादृश- बलिष्ठानामावश्यकताऽस्ति, येषां पेश्य: लौहवद् दृढाः तथा स्नायवः अयोवत् कठिनाः, एवं येषां प्रचण्डा इच्छाशक्तिः ब्रह्माण्डस्य गूढतमं रहस्यं भेत्तु समर्थाऽस्ति ।" स दुर्बलकारकस्य 'गुह्यतत्त्वस्य' निन्दाम- करोत् । “धर्मस्येयमेव परीक्षा अस्ति । यत् किमपि तावकीनां शारीरिकीं मानसिकों अथवा आध्यात्मिक दुर्बलतां प्रापयेत् तत् विपवत् परित्याज्यम् ।" श्रीनेहरूः स्वामिनो भाषणेभ्यः पत्रेभ्यश्च ईदृशं विपुलमंशं निजे तस्मिन् ग्रन्थे उद्धृतवान् - एवमालिखत् । - कुम्भकोणे दिनत्रयमवस्थाय स्वामी मद्रनगरं प्रातिष्ठत । प्रत्येके वाप्पयानविश्रामालये दर्शनार्थिनामगणितमनुष्याणां सम्मर्द आसीत् । येषु शकटविश्रामस्थानेषु यानस्यावस्थानं नासीत् ; तत्रापि सहस्रशो मनुष्याः त्यक्तजीविताशा: लौहमार्गे शयित्वा शकटं रुरुधुः । ते जना भारतगौरवस्य महापुरुषस्य दर्शनं काङ्क्षन्त आसन् । स्वामिनः मुखात् द्वित्रवाणीश्रवणस्य वाञ्छां दधति स्म । स्वामी समेषामिच्छाया: पूर्ति तन्वन्नवर्तत । सर्वेभ्यो दर्शनं प्रादात् । तथा द्वौ करौ प्रसार्य सर्वेभ्य आशिषोऽयच्छत् । १६