पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः प्राणान् सञ्चारयति । निद्रितः शव उत्तस्थौ । तस्य जाड्य वित्रस्यमान- मस्ति । योऽन्धोऽस्ति तेन न दृश्यते । यस्य मस्तिष्कं दूषितं वर्तते स वोद्ध न पारयति यत् अस्माकं मातृभूमिः गभीरनिंद्रां मुक्त्वा जाग्रती अस्ति । अस्मिन्नवसरे तस्या गतिरोधं कर्तुं न कोऽपि समर्थः । इयं पुनर्निद्रायामाच्छन्ना न भवेत् । एनां कोऽपि बाह्या शक्तिः दमयित्वा रक्षितुं न समर्था । कुम्भकर्णनिद्रा त्रुट्यन्तो दृश्यते । ” २४० पश्चात् सोऽब्रवीत् – “धर्म एव भारतस्य मेरुदण्डः अस्ति, राजनीतिः अन्यद् वा न किमपि ।” अस्मिन् समये भारतस्य कृते जडवाद- स्याप्यावश्यकता वर्तते । साहसावलम्बनं कर्तुं निर्देशं कुर्वन् स आह - “जगति यदि किमपि पापमस्ति चेत् दौर्बल्यमेव तत् पापम । सर्वविधां दुर्बलतां परित्यजत — दुर्बलतैव मृत्युः, दुर्बलतैव पापमस्ति ।” ८८ - एतदनन्तरं स दृढतावलम्बनस्यावेदनां प्राबोधयत् तथा भाविनो भारतस्य संघटनं लक्ष्यीकुर्वन्नुवाच – “भ्रातरः ! अस्माभिः सर्वैः कठोरः परिश्रमः क्रियेत । अधुना शयनस्य नास्ति समय: तद् दृश्यताम् भारतमाता शनैः शनैः निजनयनकमलं समुन्मीलयन्ती दृश्यते । उत्तिष्ठत तथा नूतनाभ्यां जागरणोत्साहाभ्यां पूर्वापेक्षया महागौरवेण मण्डयित्वा भक्त्या सह तां अनन्तसिंहासने प्रतिष्ठितां कुरुत । 25 स्वामिनः सा देव-वाणी अशेषं भारतं आन्दोलयन्ती समस्तदेश- वासिनां हृदये तडित्स्पर्शवत् कार्यकरी बभूव । भारतवासिनां आत्मशक्तेः पार्श्वे, मनुष्यान्तः यद् ब्रह्म निद्राणमस्ति-- तन्निकटमियं वाणी दुर्जया- वेदनरूपेण संप्राप | मृतमनुष्येष्वपि प्राणानां स्पन्दनं संवृत्तम् । रामनाद- मारभ्य सम भारते स्वामी नवजागरणस्य तथा महाशक्तेः वाणीं श्रावयामास – “उत्तिष्ठत जाग्रत प्राप्य वरान् निबोधत ।” एवं सर्वेषां कर्णयोः स 'अभीः' मन्त्रं ददौ । - पण्डित जवाहरलालः निजे 'भारताविष्कार'-ग्रन्ये वर्तमानभारताय स्वामिनो दानस्य सम्बन्धे तदीयां वाणीमुद्वरन् अनेकविषयान् आलो-