युगाचार्य- विवेकानन्दः भारतस्य चिन्ता स्वामिनश्चित्तेऽधिकार प्रतिष्ठापयामास । समस्तं भारतवर्ष तद्वाणीं ग्रहीतुं साग्रहमजायत । एकदा स स्वान्तेवासिनेऽलि- खत् – “भारताद् बहिः प्रदत्त एक आघात: अभ्यन्तरप्रदत्तसहस्राघात- सदृशो वर्तते ।” पाश्चात्त्यदेशेषु स यंप्रचण्डमाघातं दत्तवान् तस्य प्रतिध्वनिः भारतं रोमाञ्चितं तथा जागृतं चकार । सहस्रशः स्त्रीपुरुषाः विवेकानन्दोक्तिं ग्रहीतुं सन्नद्धाः आसन् । स्वामिनो हृदये भारतसंघटन- मूलकं कार्यं साकारं भवितुमुपाक्रमत । स पूर्व भारते लिलेख यत् स प्रथमं मद्रपत्तने कलिकात्तायां तथा हिमालये एकमेकं केन्द्र स्थापयित्वा कार्यारम्भं कर्तुमिच्छति । ततः परं स क्रमशः बम्बई- अल्लाहावादयोः एवं समस्ते भारतवर्षे केन्द्राणि स्थापयिष्यति ।... २३१ स्वामी प्रथमवारं इंंगलन्डं आगत्य भूमिकर्षणमकार्षीत् । द्वितीयवारं समेत्य तत्र बीजान्यवपत् । स विभिन्नस्थानेषु निजवाण्याः प्रचारमाचरत्, तस्य फलमपूर्वं समजनि । विपश्चितः एवं विचारशीला: पुरुषाः तेन सह वेदान्तचर्चा कर्तुमागत्य तस्य युक्तीः श्रेष्ठतया महोतुं विवशाः समपद्यन्त । तस्य व्याख्यानेषु एतावन्तोऽधिकाः मनुष्याः समवयन्ति स्म यत् स्थानाभावात् शतशो मनुष्याः ऊर्ध्वं स्थित्वैव व्याख्यानमशृण्वन् । समाचारपत्राणि तस्य प्रशंसयैवापूर्यन्त | १८६६ ई० वर्षस्य जनवरोमासस्याष्टादशदिवसे 'इन्डियन् मिरर'- पत्रिका स्वामिनः प्रचारकार्यसम्बन्धे व्यलिखत् – “वयं सानन्दं लिखामः यत् स्वामी विवेकानन्दः लन्दन-नगरस्य विशिष्टविदुषां तथा शिक्षित- महिलानां दृष्टिमाकृष्टवान् । तस्य हिन्दुदर्शनस्य एवं योगदर्शनस्य कक्षा- सु अनेके उत्साहिनः तथा श्रद्धावन्तः श्रोतार उपतिष्ठन्ति ।" लन्दनेऽन्यः एक: संवाददाता समलिखत् -- "लन्दननगरे सम्पन्नगृहाणां कतिपयाः महिलाः आसन्दोदौर्लभ्यात् तलभूमावेव सपादाकुञ्चनं उपविश्य भारतीय- गुरुभक्त शिष्यवत् भक्त्या साकं स्वामिन उपदेशमशृण्वन् --दृश्यमिदं अतीवाश्चर्यजनकं वर्तते । अस्माभिः श्रुतं यत् कैन्नस, हेज आदिप्रसिद्धः - १
पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२४१
दिखावट