पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३० युगाचार्य-विवेकानन्दः भारतवर्ष विशेषतोऽयमर्णमस्ति !” मैक्समूलर: सुदूरं चत्वारिंशद्वर्ष- पर्यन्तं वेदानामनुसन्धानं विद्वे । अत एव तं स्वामी 'आर्य परवतार' इत्यभ्यधात् । एतेषु दिवसेषु स्वामी सारदानन्द न्यूयार्के सातिशयसाफल्येन वेदान्तस्य प्रचारकार्यं प्रचालयन् अविद्यत । स्वामी लन्दनं परावृत्य कतिपयदिनविश्रामानन्तरं अक्टूबरमासस्य ८ तारिकायां नियतरूपेण भाषणं कक्षाध्यापनं प्रक्रान्तवान् | तस्य प्रचारस्य पर्याप्तं फलं समजायत । इङ्गलन्डस्य धर्मप्रचारकाणां विचारधारा अपि तेन विशेषरूपेण प्रभाविता बभूवुः । बहवो मनीषिणः स्वामिसंस्पर्शे आगत्य उपकृता जाताः । पूर्वनिर्धारणानुसारं अस्मिन् समये स्वामिसतीर्थ्यः अभेदानन्दोऽपि लन्दनमाजगाम | स्त्रामी नवागतं प्रचारकं प्रस्तुतीकृत्य कर्मक्षेत्रेऽवता- रणस्य व्यवस्थां व्यतनोत् । अक्टूबरमासस्य २७ तारिकायां 'व्लुम्स- वेरिस्क्वयर्' इत्यत्र स्वामिनं प्रतिनिदधानः अभेदानन्दस्वामी चारुतरं भाषणमकार्षीत् । स्वामी अतीव प्रसन्नोऽजायत । एवं प्रचारकार्यस्य उज्ज्वलामायतिं विज्ञाय स निश्चिन्तः समभूत् । प्रतीच्यां काष्ठायां वेदान्तः सुप्रतिष्ठितः संवृत्तः । स्वामी एकदा प्रोवाच – “..कर्तव्य- परायणाः कार्यदक्षाः विंशतिप्रचारका यदि लभ्येरन् तदा विंशतिवर्षा भ्यन्तरे अहं पाश्चात्त्य - भूखण्डं वेदान्तभावप्रभावितं कर्तुं शक्ष्यामि ।”*

  • बेलुडमठद्वारा १६६२ ई० वर्षस्य मईमासे प्रकाशितरामकृष्णमठस्तथा

मिशनसाधारणविवरणे ( जनरल - रिपोर्ट) लिखितं वर्तते- वर्तमानसमये अमेरिकाया विभिन्नस्थानेषु दश प्रधान केन्द्राणि अष्टौ क्षुद्रभजनाश्रमाः; अर्जन्टाइना-देशे, इङ्गलन्डे स्वीजरलन्डे च एकमेकं स्थायिकेन्द्र स्थापितमस्ति । संहत्य अष्टादश संन्यासिनः तथा भूयांसो ब्रह्मचारिणः इदं वृहत्तमं कार्य निर्वहन्ति । ( फ्राँसदेशेऽप्येकं केन्द्रं सन्नद्धं वर्तते - लेखकः । ) -