पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः समये कदाऽपि एकेन शिष्येण मैडोनामूर्तिमानीय स्वामिनः सम्मुखे 'आशीर्वादा: दोयन्ताम्' इत निवेदने कृते स शिरो नमयित्वा शिशो: ईसा-महोदयस्य चरणस्पर्श कृत्वा प्राह - "अहं यदि तस्मिन् समये उपस्थितोऽभविष्यम् तदा अश्रुभिन, वक्षोरुधिरेण तस्य चरणौ अक्षालयिष्यम् ।”... २२९ स्वल्पैरेव दिवसैः स्वामिनः स्वास्थ्ये उन्नतिः समदृश्यत | तुषारवातं जलप्रपातं एवं पर्वतीय सुपमाञ्च दृष्ट्वा स्वामी हिमाचलशोभां स्मरन् अतिमात्रं प्रफुल्लोऽभूत् । तस्मिन्नेव समये जर्मनी कील विश्वविद्यालयस्य प्रसिद्धः प्राध्यापकः पालडायसन: सन्द्रष्टु स्वामिनमामन्त्रयत् । तद्- नुसारं स्वामी कोलनगरं गत्वा प्राध्यापकनिलये तेन सह समागच्छत । वेदान्तचचैव प्राध्यापकस्य एकमात्रं जीवनव्रतमासीत् | आलोचनाप्रस प्राध्यापकः प्राह – “वेदस्य तथा वेदान्तस्य उच्चा विचारधारा क्षणादेव मानसं उन्नत माध्यात्मिकं भावराज्यं नयति ।... मनुष्यस्य चिन्तन- शक्तिः सत्यमन्विष्यन्ती यानि तत्त्वानि आविष्कृतवती, उपनिषदः, वेदान्तदर्शनम्, तथा शाङ्करभाष्यम् तेषां श्रेष्ठतमा अभिव्यक्तिरस्ति ।” स्वामिना साकं वेदान्तस्य उपनिषदश्च आलोचनया प्राध्यापक एतावान् मुग्धो बभूव यत् स स्वामिनं कतिपयदिवसान् तत्रैव अवस्थातुं अनुरुरोध | किन्तु लन्दनस्य कार्यार्थं तद् न सम्भवमस्तीति ज्ञात्वा प्राध्यापकः स्वयमेव स्वामिना सह वेदान्तालोचनार्थं पुनः हम्बुर्गनगरे गत्वा सममिलत् । सर्वेऽपि हालन्डराजधान्यां एमटार्डम-नगरे दिनत्रय- मुषित्वा सम्भूय लन्दनं प्राचलन् । स्वामिनो भाषणमाकण्य वेदान्ताभि- प्रायस्य समुज्ज्वलप्रकाशेन प्राध्यापकस्यान्तरं उद्भासत | लन्दने सप्ताहृद्वयं यावत् अनुदिनं तयोर्द्वयोः समागमो बभूव । पाश्चात्त्यानां अनयो योः श्रेष्टमनीषिणोः सम्बन्धे स्वामी 'ब्रह्मवादिन- पत्रिकायां व्यालिखत्–“भारतवर्षं स्वात्मानं यावद् दूरं अजानात् ततोऽप्यधिकं इमौ द्वौ विद्वांसौ अजानीताम् | अनयोर्द्वयोः समक्षं