पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः तदानीमेव काले स प्रवीण इव बहुविधान प्रश्नाननुष्ठाय मातरमुदवेज- यत् – “भृत्यो यदि भोजनालये गच्छेत्, रोटिकां वा स्पृशेत् तेन किं स्यात् ? परकीयसंस्पृष्टान्न भोजनेन जातिः किमिव नश्येत् ?” एतादृशाः शतशः प्रश्ना अभूवन् । ." PA विश्वनाथदत्तसन्निधाने विभिन्नजातीयपुरुषा अभियुक्ताः समा- गच्छन् । स च विलासी ताम्रकूटसेवी चासीत् । ब्राह्मणानां, शूद्राणां, माहम्मदानामनेकजातीयानां अभियुक्तानां कृते धूम्रपानपात्रं (हुक्का ) पृथक् पृथगासीत् । नरेन्द्रनाथस्यैतधूम्रपानपात्रविभाजनमतिशय- कौतूहलपूर्णो विषयोऽभूत् । विशेषतश्च यदा तेन समाकर्णितं यद् अपरस्य जातीयस्य धूम्रपानपात्रे यद्यन्यजातीयः पुमान् धूम्रपानं कुर्यात्तदा तस्य जातिर्नश्यति, तदानीं तेन महदाश्चर्यमनुभूतम् । एकदाऽभियोग- परायणा धम्रपानं कृत्वाऽगच्छन्, तदानीमेव नरेन्द्रनाथस्तत्व कोष्ठमागत्य प्रत्येकधूम्रपानपात्रे मुखं संस्थाप्य धूम्रमपिबत् । विश्वनाथ दत्तस्तस्मिन् गृहे प्रविश्य तदवस्थं तमवलोक्य विहसन् प्रोवाच- "किं भवति बिले ?” नरेन्द्रनाथो निःसंकोचमुरत्- “पश्यामि जातेरनङ्गीकारे किं भवति ?” “अरे एतादृशी दुष्टता !” इति ब्रुवन् विहस्य च विश्वनाथदत्तो निर्गतः ।... स्वाधीनताप्रियस्य, निर्भयस्य, दृढचेतसोऽहर्निशं प्रसन्नस्य, क्रीडन- कुईनमत्तस्य नरेन्द्रनाथस्याभ्यन्तरे बाल्यादेवैकस्या विशेषशक्तर्विकास: पर्यश्यत पञ्चवर्षावस्थायां नरेन्द्रस्य विद्यारम्भो जातः । ततश्चैक- वर्षानन्तरमसौ विद्यालयं प्रहितः । नूतने स्थानेऽनेकान् नवान् सङ्गिनः प्राप्य नरेन्द्रनाथो नितरां प्रासीदत् । अल्पकालाभ्यन्तर एव तस्य मुखा- चैकोऽनादिः कुसंस्कारः, येन जातीयकर्मशक्तिः प्रत्येकस्मिन् क्षेत्रे निरुद्धा तिष्ठति । वस्तुतस्तु सम्प्रति धर्मोऽस्माकं भोजनगेहे प्रविष्टोऽस्ति ।” स्पृश्यास्पृश्यता किल ऐक्यबोधविरोधिनो वर्त्तते ।