युगाचार्य-विवेकानन्दः सन्ध्याकालीने स्वल्पेऽन्धकारे नरेन्द्रः, सौधपृष्ठस्थप्रकोष्ठेऽगच्छत् । युगलसोतारामप्रतिकृत्यभिमुखं कञ्चित्कालं यावदसौ निर्निमेषमपश्यत् । ततश्च हस्तद्वयेन सोताराममूर्त्तिमुत्थाप्यासौ बहिर्मार्ग प्राक्षिपत् ।... द्वितीये दिने तत्र शिवमूर्त्तिः प्रतिष्ठापिता / तमूर्त्तरभिमुखमुपविश्यासौ बहुकालं यावत् चक्षुषी निमील्य ध्यानमकरोत् । एकदा सङ्गिभिः साकं क्रीडामिषेणासौ शरीरे भस्म धारयन ध्याने समुपविवेश | किञ्चित्काला- नन्तरमेको बालकः 'सर्पः सर्पः' इति चीच्चकार । सर्वे सहचरा द्वारमुद्घाट्य पलायिताः, किन्तु नरेन्द्रनाथो ध्यानमग्नोऽतिष्ठत् । सर्प- कोलाहलस्तेन किञ्चिदपि नाकर्णितः । कोलाहलमाकर्ण्य गृहजना धावन्तः समुपतस्थिरे। सर्पमवलोक्य सर्वे भयमकुर्वन् । इदानों क उपायः ? बिले कथं रक्षणीयः ? सर्पापसारणचेष्टायां कृतायां सम्भवतोऽसौ हानिं कुर्यात्, इति भोत्या सर्वे शान्तास्तस्थुः । ु किञ्चित्कालानन्तरमेवासौ सर्पः फणां संकोचयन् शनैः शनैर्निर्जगाम । नरेन्द्रनाथस्तदानीमपि ध्यानमग्नोऽतिष्टत् । स चोत्थाप्य बहिरानीतः । सर्वमाकर्ण्य तेनोक्तम्–“मया तु किमपि नावाबुध्यत ।” “नरेन्द्रो ध्यानसिद्धो महापुरुष" इति रामकृष्णदेवेन प्रतिपादितम् — "असौ कोऽस्तीति यदा ज्ञास्यति, तस्मिन्नेव दिने संसारे स न स्थास्यति, दृढसंकल्पबलेनासौ तदानीमेव योगमार्गेण शरीरं ● त्यक्ष्यति ।” विवेकानन्देन बाल्यादेव तस्य
- परवर्त्तिनि काले स्वामिना
विचारस्य, न वा ज्ञानस्य मार्गे वर्त्तते, स तु केबलं स्पृश्यास्पृश्यमार्गे एव जागर्त्ति । ‘मां न स्पृश' एतादवदेव ! स्पृश्यास्पृश्यता चैकप्रकारतो मानसिको रोगः । स्पृश्यास्पृश्यविवेको न हिन्दु धर्मः । अस्माकं शास्त्रेषु नास्त्यस्योल्लेखः । स स्पृश्यास्पृश्यविपरीता घोषणा कृता बभूव । जातिविभेदविचारविषये विशेषकौतूहलमासीत् ।
प्रतिपादितम्– “आधुनिकहिन्दुधमों न १२