पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः च तस्य क्षुद्र एव कृपे उपविष्टोऽस्ति, एवं तमेव समग्रां पृथिवीं मन्यते । मोहम्मदीयोऽपि तस्य क्षुद्रमेव कृपमध्यासीनः समस्तामेव धरणीं तमेव मन्यते । भोः अमेरिकावासिनः ! भवन्तोऽस्माकमेतत् १९१ जाताः, क्षुद्र-क्षुद्र जगतामवरोधं संक्तमेव विशेषरूपेण यत्नवन्तो तदर्थमहं भवद्भ्यो धन्यवाद ददामि । आशां च पोपयामि, ईश्वरो भविष्यति काले युष्माकमेतन्महदुद्देश्यसाधने साहाय्यं करि- व्यतीति ।..." एकैकश एव वक्ता स्व-स्वसम्प्रदाय मधिकृत्य भगवतो महिमान- मकीर्तयत् । केवलो विवेकानन्द एव सर्वेषां धर्माणां वचनं भगवतः कथा, तस्यैव विराजः पुरुषस्य कथैव इत्यवदत् । तमेव विराजं पुरुषमधि- कृत्य यः खलु सार्वभौमो विश्वधर्मो निर्मित: प्रतिष्ठितश्च भविष्यति, तद्धर्मसम्बन्धे तेनोक्तम् – “स एव धर्मो यमनन्तं भगवद्विषय- मुपदेक्ष्यति, स एव तादृशोऽनन्त एव भविष्यति । स एव धर्मसूर्यः कृष्णभक्तं प्रति, सृष्टधर्मं प्रति, साधुम् असाधुं वा प्रति, सर्वान् प्रति समभावेन तुल्यं किरणजालं प्रसारयिष्यति । स धर्मः केवलो ब्राह्मण्य- धर्मः बौद्धधर्मो वा सृष्टीय-धर्मो वा मुस्लिम धर्मो किन्तु सर्वेषामेव धर्माणां समष्टिरूपो भविता । वा न भविष्यति, अथ च तस्मिन्नेव धर्मे उन्नतेरनन्तपथो मुक्त एव स्थास्यति । स धर्म एतावान् सार्वभौमो भविष्यति, यत् संख्यातीतैः सर्वतः प्रसारितहस्तैः पृथिव्याः सर्वानेव नरान् नारीश्च सादरमालिंगिष्यति । एवं तस्य समस्तैव शक्तिः सर्वेषां सर्वजातीयानां मनुष्याणां स्व-स्व-देवत्वोपलब्धये साहाय्यं कत्तु मेव नियुक्ता स्थास्यति । 'प्रत्येकधर्म एव ईश्वरोऽस्ति ।' सर्वस्मिन्नेव जगति एतत्सत्यघोषणाभारः अमेरिकावासिनां कृते आसीत् ।” सकस्यापि धर्मस्य निन्दां तत्समालोचनं वा न कृतवान् | कमपि धर्मं न हीनमवदत् । सोऽब्रवीत् - "सृष्टीयैर्न हिन्दुभिः बौद्धैर्वा भाव्यं, अथवा हिन्दुधर्मीयैः बौद्धधर्मावलम्बिभिर्वा न खलु सृष्ट-धर्म-