पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य- विवेकानन्दः लोकप्रियो वक्ता आसीत् यत् मंचस्य एकस्या दिशो यदि अन्यस्यां दिशि सकृत् अगच्छत् तेनैव श्रोतारः करतालिकानादैदिंगन्तं परि पूर्य तमभिनन्दिवन्तः । नीरस वक्तृतामाकर्ण्य, रसहीन- प्रबन्धं वा श्रुत्वा श्रोतृणां यदि धैर्यच्युतिरभवत् तदा सभापतिरुत्थाय अघोषयत्-"सभाकार्याव- वक्तृतां सानात् कियत्पूर्व स्वामि- विवेकानन्दः काञ्चित स्वल्पामेव दास्यती”ति । स्वामि-महोदयस्य मुखात् कानिदेव कथां श्रोतुं श्रोतारः शान्तचित्ताः सन्तो घण्टाद्वयमपि प्रतीक्षन्ते स्म । एवम्प्रकारेण सप्तदशाधिवेशनानि जातानि । तत्र सहस्राधिक- प्रबन्धानां पाठो वक्तताश्च बहुव्यः अभवन् । स्वामिविवेकानन्देनापि बहूनि भाषणानि दत्तानि ! तेषां सर्वेषामेव भाषणानां सारांश एव ज्ञातुं शक्यः । स हि मानवात्मनो महिमानं समुद्घोषय अब्रवीत् - सर्व एव "अमृतस्य पुत्रा:" "ज्योतिर्म्मयस्यैव तनयाः ।” , १९४ - । १ स खलु नवमदिवसीयाधिवेशने हिन्दू धर्मसम्बन्धिनीं यां वक्तृता- मददात, तत्र स अघोषयत् “अमृतस्य अधिकारीति कियन्मधुरं वचः कीदृशञ्च आनन्दवर्द्धकम् | अयि भ्रातरः ! अनेनैव सुमधुर- नाम्नाहं युष्मान् सम्बोधयितुमिच्छामि। यूयम् अमृतस्यैवाधिकारिणः । हिन्दू-जातीया युष्मान् ‘पापिन:' इति वक्तु नैव पारयन्ति | यूयं परमेश्वरस्य पुत्राः, अमृतस्य अधिकारिणः | यूयमेव पवित्राः पूर्णाच, अस्या मर्त्यभूमेदेवा इति । यूयं पापिनः इति तु न सम्भाव्यते, मानवान् प्रति पापीति कथनमेव महापापम् ।” दशमदिवसीयाधिवेशने सोऽवदत्, “धर्मो भारतस्य तत्त्वतो नाभाव-विषयः" इति शीर्षक-लघु-भाषण-प्रसंगेन प्रकटीचकार, यद् भारते धर्मस्याभावो वस्तुतो नास्ति अन्नवस्त्राणामेव | सोऽब्रवीत्, स्वल्पयैव भाषया - — तात्त्विकोऽभावः उद्वत् निःस्वानेव पौत्तलिकान् यूयं बहुलक्षसंख्यकमुद्राव्ययेनापि सृष्टधर्मं याजकान् प्रेरयथ । तेषां