युगाचार्य-विवेकानन्द्रः सर्व एव प्राचीन विधिमनुसृत्य विवेकानन्द एव श्रोतॄणां सम्बोधनं चक्रुः। केवलं सम्बोधनमकरोत् – “भगिनी आता च " इत्युक्त्वा मानवजातिम् । वक्तुः अन्त:स्थितं भ्रातृभावस्य स्पन्दनं सर्वाण्येव हृदयानि झंकृतानि अकरोत् । प्रत्येकोऽन्वभवत् यत् विवेकानन्दस्य मुखनिःसृतां युगस्य कल्याणवाणीमिव सर्वे अशृण्वन् । क्षणादेव समग्र- मानवजातीनामैक्यं सहस्र-सहस्र-नर-नारीणामन्तःकरणे भवत् । अनुभूतमिवा- १८८ ९ स्वामिमहोदयः क्रियतो निमेषान् भूयो भूयो यत्नेनापि श्रोतृवृन्दस्य उत्साहं आनन्दच मन्दीभूतं कत्तु नाशकत् । अभिभूत इव स दण्डाय- मानोऽतिष्ठत् । यदा सभा स्तव्धा जाता, तदैव स संक्षिप्तमेकं भाषणं कृतवान् । संक्षिप्तमपि तस्य भाषणम् उदार-विश्वजनीनभावेन पूर्णमासीत् । स पृथिव्याः प्राचीनतमसंन्यासि नाम्ना, सर्वधर्मस्य प्रतिनिधिरूपो भूत्वा, प्रसूतिरूपो यः सनातनो वैदिकधर्मः सम्प्रदायस्य तस्य पृथिव्याश्च यावतां हिन्दू जातीयानां सर्वेषां हिन्दुसम्प्रदायानां कोटि- कोटि-संख्यकनराणां नारीणाञ्च मुखस्वरूपो भूत्वा आर्य ऋषीणां नाम्ना सभामभ्यर्थयामास । स जगतां सर्वधर्मस्य जननीरूपेणैव स सनातन हिन्दू- धर्म सभायामुपास्थापयत् । एवञ्च अवदत्, “यो धर्मः
- स्वामिमहोदयस्य तत्सम्बोधन-वाक्यमध्ये विश्व-भ्रातृत्वस्य बीजं निहित-
मासीत् । अपि च विश्वमानवताया भंकारः, वैदिकऋषीणां वाणी, सौभ्रात्रस्य च स्पर्शोऽपि आसीत्। द्वि-सहस्र-वर्षेभ्यः प्राक् "यीशु" अपि अवदत् “भगवान् यदि मानव-जातीयानां पिता स्यात् तदा वर्षं तस्य सन्तानाः । ” स्लृष्टानस्य देशे सृष्टीयान् प्रति स्वामिमहोदय-कण्ठात् निःसृता सैव विश्वभ्रातृत्वस्य मानव-कल्याणस्य च वाणी ध्वनिता आसीत् । सर्व एव तस्य परम-पितुरेव अपत्यानि, मानवो मानवानां भ्राता, एका अखण्डा मानवजातिः। “रोमाँ रोलाँ” नामदार्शनिकोऽवदत्, यत् "अयमेव श्रीरामकृष्णस्य निःश्वासः । सर्वां बाधामतिक्रम्य तस्य महतः शिष्यस्य मुखान्निर्गती जातः ।"