सामग्री पर जाएँ

पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः पृथिवों चिरं समदर्शनं सर्वविध-मतवादग्रहणं च शिक्षयति, अहं तस्यैव धर्मस्थान्तर्वर्त्तीति स्वं गौरवान्वितं मन्ये । वयन्तु न केवलं भिन्न- धर्मावलम्बिनं समदृष्ट्या पश्यामः, अपि तु सर्वमेव धर्मं सत्य-रूपेण वयं विश्वसिमः । या एव जातिः पृथिव्याः सर्वस्यैव धर्मस्य जातेश्च उपद्रतं, त्रस्तम्, आश्रयलिप्सुं जनगणं चिरम् अकातरम् आश्रयदानमकरोत्, तस्या एव जातेरन्तर्भुक्तोऽहमिति आत्मानं गौरवान्वितं मन्ये । यस्मिन् वत्सरे रोमकानां भयंकरोत्पीडनात् यहुदीजातीयानां पवित्रो देवा- लयचूर्णीकृतो जातः, तस्मिन्नेव वत्सरे तेषां कतिपयेषु आश्रयलाभांय दक्षिणभारतमागतेषु ममैव जातीयास्तेषां सादरं हृदयमध्ये धारण अकुर्वन् । तदर्थमपि अहं स्वात्मानं गौरवान्वितं मन्ये | जोरायारत- रानुगामिनः सुबृहत् पारसीकजातेरवशिष्टांशान् य एव धर्म्म आश्रय- दानमकरोत्, अद्यावधि यो धर्म्मस्तान् प्रतिपालयति तस्यैव धर्म्म स्यान्तर्भुक्तोऽहम् ।” . १८९ ततः परं स्वामिमहोदयो विभिन्नधर्माणां गन्तव्यस्थान मेकमेवेति गीतायाः प्रसिद्धइलोकमुद्धृत्य तददर्शयत् – “ये यथा मां प्रपद्यन्ते, तांस्तथैव भजाम्यहम् । मम वर्मानुवर्त्तन्ते मनुष्याः पार्थ ! सर्वशः ॥” । अर्थात् यत्किमपि धर्ममतमाश्रित्य कोप्यागच्छतु, तद्भावेनैव अहं तमनुगृह्णामि । भो अर्जुन ! मनुष्याः सर्वतोभावेनैव मन्निर्दिष्ट-पथ- मेवानुसरन्ति । ततः परं शिवमहिम्नस्तोत्रस्य एकांशमुद्धृत्य अवदत्, यत् "रुचीनां वैचित्र्यात् ऋजुकुटिलनानापथजुषां नृणामेको गम्य- स्त्वमसि पयसामर्णव इव ।” अर्थात् हे प्रभो ! नानापथगामिनीनां नदीनां सागर इव विभिन्न- रुचिवशात् सरल-कुटिलादिनानापथचारिणां जनानां त्वमेव एकं गन्तव्यस्थानम् । श्रीरामकृष्णपदप्रान्ते समुपविश्य स्वामिमहोदयो “यावन्ति मतानि तावन्त एव पन्थानः” एवं यां समन्वयवाणीमशृणोत्, उदात्तकण्ठः