१६ - १८६३ ईसाब्दीय-सितम्बरमासस्य एकादशदिनं सोमवासरो जगतो धर्मेतिहासस्य एकं स्मरणीयं दिनम् - प्राच्यप्रतीच्ययोर्मिलनदिनम् - सर्व, स्मिन्नेव जगति विश्वभ्रातृत्व प्रतिष्ठायाः सूत्रपातनम् । स्वामिविवेका- नन्दं यन्त्ररूपेगावलम्व्य विश्वस्य धर्ममहासम्मेलने प्राचीन भारतस्य वेदान्तधर्म्मः सर्वोच्चे आसने प्रतिष्ठितो जातः । विश्वस्य शान्ते: मैत्र्यस्य च पन्थाः संस्थापितो बभूव । पूर्वाहे दिवा दशवादनसमये नव-निर्मिते 'आर्ट-इन्स्टिट्यूट' नाम्नः प्रतिष्ठानस्य कोलम्बस्-नामक-प्रशस्तप्रकोष्ठे यथाविधि स्वस्ति- वाचनादिना संगीतादिभिश्च धर्मसम्मेलनस्य उद्बोधनं जातम् । तस्य दिनस्य इत्थं कार्यपद्धतिक्रम आसीत् - प्राथमिकी विज्ञप्तिः, प्रति-
- स्वामीविवेकानन्दो कञ्चित् मद्रासदेशीयं शिष्यम लिखत्, “महासभाया
आरम्भ-दिवसे प्रातः सर्वे वयं 'शिल्पप्रासाद' -भवने समवेता भवामः । अत्र तु सर्वजातीया एव लोकाः समवेताः । कल्पयत, निम्ने एकमेव प्रकोष्ठ, तत्परं प्रकाण्डं गैलरीति उपवेशन- स्थानम्, तत्र तु अमेरिकावासिनः श्रेष्ठा एव सहस्राणां षट् सप्त वा सुशिक्षित नर नार्यः समवेताः मञ्चोपरि पृथिव्याः सर्व- समावेशश्च । सभा समारब्धा जाता । १ जातीयपण्डितानां तदा सभासमीपे एकमेकं प्रतिनिधिं परिचितं कर्तुं समयः समारब्धः । ते प्रतिनिधयोऽपि अग्रे- सरन्तः किञ्चित् किञ्चिदवदन् । सर्वेऽपि वक्तृतायै वक्तृता-विषयं स्थिरीकुर्वन्तः सज्जीभूताः समायाताः । निर्बांधोऽहं किमपि न निश्चयं कृत्वा समागतः । केवलं देवीमहं सरस्वतीं प्रणम्य अग्रेसरोऽभवम् । व्यारोज महोदयो मे परिचयं विवृणोति स्म । गैरिकवसनेन मे सर्वे श्रोतारः समाकृष्टा जाताः । ***”