पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः रात्रौ वाष्पीययानं तत्रोपातिष्ठत | कुत्र यामि, किं करोमि इत्येवम चिन्तयत् । व्यवस्थापक समितेः कार्यालयस्य चिह्नितपत्रमपि तेन हारितम् । न स श्वेताङ्गः, अनेकेषां श्वेताङ्गानां दृष्टौ कृष्णवर्णो मनुष्यः, अस्पृश्येभ्योऽपि घृणास्पदम् । निरुपाय: सन् वाष्प-यान विश्रामस्थानस्य ( स्टेशन ) एकस्मिन् प्रान्ते काचित् बृद्विक्ता पेटिका आसीत्, तन्मध्ये आश्रयम् उपलभ्य येन केन प्रकारेण दुर्जय-शीतकवलात् अति- कृच्छ्रेण आत्मरक्षामकरोत् । प्रभातायामेव रात्रौ स पन्थानमनुसंधातुं बहिरभवत् । सर्वत्रैव स प्राप्तवान् अवमाननं लांछनाच | भारवाहि नोऽपि तं प्रतारितम् अकुर्वन् । कियत्सु स्थानेषु तु स कर्कशभावेनैव विताडितोऽभूत् । बहुप्वेव भवनेषु भृत्यैः स अवमानितोऽक्रियत । कुत्र वा, तत्-समक्षमेव सशद द्वारमवरुद्ध चक्रे, 'निग्रो' इति मत्वा तमवमानितं बहु चकार ।* १८४ अनेनैव विधिना बहुकालं यावत् इतस्ततो भ्रमणात् परं क्लान्तः स पथपार्श्व उपविष्ट एव जातः । तस्मिन्नेव काले स्वर्गीया दूती इव काचित् भद्रमहिला वर्त्मनोऽन्य पारस्थित भवनात् बहिरेत्य सुस्वरेण तमपृच्छत्, “महाशय ! किं भवान् धर्म्ममहासभाया: प्रतिनिधिः ?” ·

  • विवेकानन्दस्य दुःसाहसिक-पाश्चात्याभियानमादितोऽन्तं यावत् अतीव

विपत्संकुलमासीत् । प्रतिपदमेव सुदीर्घ चतुर्वर्षाणि प्रत्यहम् बहूनेव बाधा- विघ्नानतीत्य तैः सह विरोधितां कृत्वैव सोऽग्रेसरोऽभूत् । सम्प्रति प्रायशः सप्तति- वर्षेभ्यः परं सर्वत्रैव स्वामिमहोदयस्य विजयगीतिः श्रूयते । किन्तु एतस्यैव विजयस्य मूल्यरूपेण तेन सोढव्यमासीत् आघातबहुत्वं, निर्यातनं, उत्पीडनञ्च । सोऽरोदीत् क्षतविक्षतो भूत्वा मनःक्षोभेण मृतप्रायोऽभवत् । किन्तु तस्य अश्रुजलं पाश्चात्त्यभूखण्डमेव ( उर्वरं ) अंकुरजननोपयोगि चकार । स रणे आहूतो जातः । किन्तु न अम्रियत, अन्तं यावत् स विजयी संजातः । देवानां विशेषा- शीर्वादस्तस्मिन्नासीत् ।