पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः सैव भद्रमहिला तं हार्वर्ड विश्वविद्यालयस्य ग्रीक भाषायाः जे० एच॰ राइट्-नाम्ना प्रसिद्धाध्यापकेन सह परिचितमकरोत् । प्रथम- दिवसस्य चतुर्घटिकां व्याप्य संलापेनेव अध्यापको राइट् महोदयः भारतीयस्यैकस्य तरुणसंन्यासिनः प्रतिभया एतावान् मुग्धो जातः, यत् सः स्वतःप्रणोदित एव स्वामिमहोदयाय सर्वस्मिन्नेव विषये साहाय्यं कर्तुमभिलापं व्यक्तमकरोत् । धर्ममहासभायां हिन्दूधर्मस्य प्रतिनिधिरूपेण योगदानार्थमनुरोधं चकार च । किन्तु यदा स्वामि- महोदयोऽवदत् यत् तस्य किमपि परिचयपत्रं नास्तीति तदा राइट- महोदयः हसन्नवदत् यत् “भवतां समीपे योग्यताया निदर्शनस्य अनुसंधानं, एवं किरणं वितरितुं सूर्यस्याधिकारोऽस्ति न वेति जिज्ञासा तुल्यैव कथा ।” , १८३ , स हि प्रतिनिधि निर्वाचन समितेः सभापतये पत्रमलिखत्- " असौ एतादृशो विज्ञो जनो, यत् सर्वेषामेवास्माकमध्यापकानां पांडि- त्यस्य एकीकरणेनापि अस्य पाण्डित्यस्य सदृशं न स्यात् ।” न केवलं तन्मात्रं, स शिकागो-पर्यन्तमेकं पाथेयशल्कपत्रं क्रीत्वा स्वामिमहोदयाय प्रायच्छत् । एवं च धर्मसम्मेलनस्य प्रतिनिधि-व्यवस्थापक समितौ अपि एकं पत्रं प्रेरयामास । एतत् सर्व पूर्वत एंव श्रीभगवन्निर्धारित - व्यवस्थया तुल्यमिति मनसि प्रतिभाति । नवीनामाशामादाय स्वामीमहोदयः शिकागोस्थानं प्रतियातुं प्रवृत्तः । यावत् त्रिंशत्कोटि-भारतवासिनां समुद्धाराय व्रतं गृह्णीत – ये प्रतिदिनमेव निमज्जन्ति । एतदेकेनैव दिनेन न साध्यते । पन्थाः भयंकरः कण्टकपूर्णश्च । किन्तु पार्थ- सारथिरस्माकं सारथिरपि भवितुमिच्छुस्तत् वयं जानीमः । तस्यैव नाम्ना तं प्रति अनन्तं विश्वासं संस्थाप्य भारतस्य शतशतयुगांत् संचिते अनन्तदुःखराशौ अग्निसंयोगं कुरुत, तत्सर्वं दुःखं भस्मसात् भवत्येव ।..."