सामग्री पर जाएँ

पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः “सम्प्रति पृच्छामि, समाजस्य एतादृशीं नवीनां दशाम् आनेतुं सर्वान्तःकरणैः प्राणपणेन यतिष्यन्ते, एतादृशान् कति निःस्वार्थ- युवकान् मद्रासः उत्स्रष्टु' शक्त: ? ये खलु दरिद्रान् प्रति सहानुभूति- सम्पन्ना भविष्यन्ति, क्षुधार्त्तानां तेषां मुखे अन्नं दास्यन्ति, सर्व- साधारणमानवेषु करिष्यन्ति एवञ्च युष्माकं पूर्व- पुरुषाणाम् अत्याचारेण ये खलु पशुभावमातवन्तः, तान् मानवत्वं प्रापयितुं चेष्टामामरणं करिष्यन्ति ।” शिक्षाविस्तारं १७७ अनेनैव पत्रेण स्वामिनो विवेकानन्दस्य चिन्ताधारापरिचयं वयं प्राप्नुमः । भारतस्य कल्याणमेव तस्यैकः चिन्ताविषयः । भारती- यानामगणितदरिद्रनरनारीणां चिन्ता तस्य मनसि दृढतरवासस्थान- मकरोत् । त एव तस्य ध्यानविषया आसन् । योकोहामातः स्वामि-

  • ‘विवेकानन्द' इति नाम्न उत्पत्तौ नानासमालोचनानि अभवन् । सम्भाव-

यामः, काशीपुरस्य उद्याने १८८६ लृष्टाब्दे फेब्रुअरी मासस्य कस्मिंश्चित् काले श्रीश्रीरामकृष्णदेवः नरेन्द्रनाथ-प्रमुखेभ्य एकादशशिष्येभ्यो युवभ्यो गैरिंकवस्त्र जपमालाञ्च दत्वा तेषु शक्तिसञ्चारं कृत्वा संन्यासदीक्षामददात् । तदा तु स शिष्येभ्यः किमपि आश्रमिकं नाम न ददौ । श्री ठाकुरस्य देहत्यागानन्तरं बराहनगरमठे १८६७ लृष्टाब्दस्य प्रथमत एव नरेन्द्रनाथप्रभृतयः कतिचन श्रीरामकृष्णशिष्या विरजाहोमं सम्पाद्य आनुष्ठानिक भावेनैव संन्यासाश्रमं तन्नामानि च गृहीतवन्तः । तदा रामकृष्णानन्द इति नाम- ग्रहणे नरेन्द्रनाथस्य वासना आसीत् । किन्तु तस्य अन्यतमस्य गुरुभ्रातुः शशिन एकनिष्ठादर्शभूतगुरु सेवाविषयं स्मृत्वा स शशिने एव तन्नाम अददात् । फलतः शशी एव स्वामी रामकृष्णानन्द इति नाम्ना परिचितो जातः । तदा नरेन्द्रनाथः किमपि नाम अगृह्णात् न वा, तत्र किमपि प्रमाणं न लभ्यते । केऽप्याहुः तदैव स 'विविदिषानन्द' इति नाम गृहीतवान् इति । १२