युगाचार्य-विवेकानन्दः महोदयः वाष्पीयजलयानेन प्रशान्त महासागरमतीत्य गच्छति । प्राच्य- भूखण्डं पश्चात् त्यक्त्वा स प्रतीचीमेव दिशं प्रति अगच्छत् । किन्तु स प्राच्यदेशविषयिणीं चिन्तां न विस्मर्तुम् अशक्नोत् । इतः प्रशान्त- महासागरातिक्रमणकाले यानमध्यस्थ एव स शीतेन कातरोऽभवत् । जगमोहनलालः तस्मै प्रभूतं वस्त्रादिकम् अयच्छत् इति सत्यं, किन्तु तस्य तदा एकमपि ऊर्णावस्त्रं नासीत् । व्यवस्थापका: शीतविषयं चिन्त- यितुमपि नालम् । तत् यानं कनाडान्तर्गते वँकूवरे उपस्थितम् अभवत् । तस्मात् स्थलीयवाप्पयानेन कनाडामध्यतः जुलाईमासस्य मध्यांश एवं शिकागोनगरे अवततार स्वामिमहोदयः । परिव्राजकजीवने स्वपरिचयं गोपयितुं स विविदिषानन्द-सच्चिदानन्दादि-नाम्ना स्वकीयं परिचयम् अददात् । तस्य स्वीयकराङ्किततत्कालीनपत्रेषु पूर्वोक्तनाम- द्वयस्यैव स्वाक्षरं प्राप्यते। अमेरिकागमनात् प्रागेव असौ परिचयपत्राय थिय- साफिकल-सोसाइटीति ख्यातसमितेः सभापतिं कर्नल-अलकटं निकषा गतवान् । १८६३ ईसवीये अप्रैल-मासस्य २७ तारिकायां खेतड़ीस्थानात् डाक्टर नञ्जण्डू- राव-महोदयं प्रति लिखिते पत्रेऽपि “ए पैव सच्चिदानन्दस्य निरन्तरप्रार्थनेति” लिखितमस्ति । अमेरिकागमनात् पूर्व मुम्बईप्रदेशम् उपगम्य तदैव वर्षे मई- मासस्य चतुर्विंशतितमदिने स श्रीमदिन्दुमती मित्रायै यत् पत्रमलिखत् तत्रापि सच्चिदानन्द इति नाम्नः स्वाक्षरं कृतवान् | यद्यपि सृष्टीयषोडशशताव्द्यामेव "पासपोर्ट" - प्रथा प्रावर्तत, तथापि अमेरिका- गमनाय इंलण्डगमनाय च 'पासपोर्टस्य' 'विसा' याश्च कापि बाध्यता नासीत् । प्रथममहायुद्धसमयादेव पासपोर्टस्य विसायाश्च बाध्यतामूलक प्रवर्तनम् अभवत् । तेनैव मन्ये स्वामिमहोदयोऽपि पासपोर्ट न गृहीतवान् । तस्य विसायाश्च किमपि प्रयोजनं नाभवत् । अमेरिकामवतीर्य स्वामिमहोदयः किमेव नाम व्यवहरति स्म, तद् ज्ञातुं कोऽप्युपायो नास्ति । किन्तु “शिकागो" धर्ममहासमितेः वक्तृ- रूपेण विवेकानन्द इति नाम प्रथममेव ज्ञायते । स भारतवर्षात् कस्यापि धर्मस्य ८
पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१८८
दिखावट