पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः कार्या । प्रत्येकशिक्षितयुवकस्य उपरि अस्य गुरुणः प्रातिभवस्य भारः विन्यस्तः अस्ति ।” १६६ महान् कोलाहलः संप्रवृत्तः । पाण्डिचेरीतो मद्रासगमनमार्गे मद्रास-शासनस्य उपसंख्यकाध्यक्षेण ( 'डेपुटी एकाउन्टेन्ट जनरल' ) श्रीयुतमन्मथनाथ भट्टाचार्येण समागमः समभवत् । प्रागेव द्वयोः घनिष्टः परिचयः आसीत् । मन्मथबाचू-महोदयस्य सविशेषाग्रहेण स्वामी तस्यातिथिरूपेण तेनैव साकं महासमाययौ । स्वल्पैरेव दिनै: मद्रासनगराभ्यन्तरे विश्वविद्यालयस्य अध्यापकाः छात्राश्च वृन्दशः समाययुः । सर्वेऽपि स्वामिनो ज्ञानगम्भीरतां समालक्ष्य स्तव्धा अभूवन | वेदस्य वेदान्तानां च सिद्धान्ता वैज्ञानिक सत्यरूपेण प्रमाणिता भवितुमर्हन्ति सर्वप्रथमं ते अन्वभवन् । वेदचतुष्टयादारभ्य वेदान्त-दर्शनस्य उच्च- तमदार्शनिकविचारपर्यन्तं तथा आधुनिक काँट- हेगेल-शिल्पकला-काव्य- सङ्गीतविद्या-नीति-शास्त्र योगशास्त्राणि विज्ञानस्य नूतनतमा आविष्काराः राजनीतिः समाजनीतिः सर्वेषु विषयेषु स नवं प्रकाशं संचारयति स्म । इतीदं मद्रासनिवासिनामुपरि स्वामिनो विपुलप्रभावस्य सम्बन्धे एकः प्रत्यक्षदर्शी अलिखत् – “कलिकात्ता विश्वविद्यालयस्य एकः स्नातकः, मुण्डितमस्तक: मनोहररूपसम्पन्न: गैरिकवसनधारी संन्यासी अंग्रेजी संस्कृत-भापयोरविच्छेदेन व्याख्यानेऽभ्यस्तः, प्रत्येक प्रश्नस्य समुचि- तोत्तरदानाद्भुतशक्तिशाली, सङ्गीतविद्यायां तथाऽभ्यस्तो यत्तस्य कण्ठात् अत्यन्त सहजतया एतहशमधुरस्वरो निर्गच्छति यः समस्त- ब्रह्माण्डस्य अन्तरात्मना सह सम्मेलित इव । परन्तु अस्ति स सर्वत्यागी निष्किचनः केवलं परिव्राजकः । बलिष्टः, साहसी, उच्चाङ्गपरिहास - कुशलः पुरुषः, तथाकथित महात्मनां पदानुसरणे प्रतिष्टितालौकिक- क्रियानुष्ठानकारि सम्प्रदायोपरि अत्यधिकघृणा सम्पन्न:- स संन्यासी अनेकव्यक्तीनां हृदयेऽनश्वरं विश्वासानलं प्रज्वलितमकरोत् ।..." मन्मथबाबुभवने प्रतिदिवसं गोष्टी समजायत । तत्र बालकाः