पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य- विवेकानन्दः कण्ठस्वरमशृणोत् । लक्षाधिकानां दीनभारतवासिनां प्रातिनिध्येन स पाश्चात्त्य देशगमनस्य संकल्पं चकार - "तत्र गत्वा विश्वमानवतायाः तथा विश्वभ्रातृत्वस्य वाण्याः प्रचारं करिष्यामि । निद्रितं मानवात्मानं प्रबोधयिष्यामि " इति । भारतमातुः सेवकरूपेण शान्तिस्नातः स्वामी ध्यानात् उत्तस्थौ । "मम भारतवर्ष ! मम प्रिया भारवासिनः !” साम्रेडं वदतस्तस्य नेत्राभ्यां अश्रुधारा प्रवहन्ती निर्गता । अव्यक्तेनानन्देन तदन्तरं अनृत्यत् । दैवबलेन स बलीयान् अभवत् ।

१६५ - कन्याकुमारीं विहाय रामनादान्तरात् स्वामी फ्राँसीसी-उपनिवेशभूतां पाण्डिचेरीं समाययौ । अचिरादेव केचित् शिक्षिता युवकास्तस्मिन् सविशेषमनुरक्ता अभूवन् । लोकनामाग्रहेण स तत्र कानिचन दिनानि विश्रामं चकार । पाण्डिचेर्याम् एकेन 'कटुतर' - ( 'कट्टर' ) ब्राह्मणेन साकं समुद्रयात्रायाः एवं समस्ते संसारे वैदिकधर्मस्य प्रचारस्य सम्बन्धे च नितान्तकौतुकप्रदा आलोचना समजायत । यदा स्वामी “समुद्रयात्रायाः कोऽपि शास्त्रस्य निषेधस्तु न वर्तते” इत्यवादीत् तदा ब्राह्मणः क्रोधारक्तो भूत्वा उवाच – “कदाऽपि न. कदाऽपि न, कदाऽपि भवितुं नार्हति । म्लेच्छा # जना धर्म कि जानन्ति ? प्रत्युत तेषां सम्पर्क समागतानामस्माकं जातेरेव नाशो भविष्यति ।" 66 ब्राह्मणस्य अनुदारतया स्वामिनः कोऽप्यानन्दो जातः । स सह- गामिनो युवकान् अब्रवीत् - "युष्माभिः किं न दृष्टम् ? हिन्दुधर्मः कुत्र गत्वा पतितोऽस्ति । सनातन वैदिकधर्म साम्प्रतं व्यक्तेः सम्प्रदा- यस्य च संकीर्णाङ्गणात् मोचयित्वा अनावृते विश्वप्राङ्गणे नस्य प्रतिष्ठा

  • स्वामिना कथितम् – “यस्मिन् दिने म्लेच्छ शब्दस्याऽऽविष्कारो बभूव

तथा विभिन्नजातीयैः सह सम्बन्धविच्छेदो जातः, तस्मादेव दिनात् भारतस्य भाग्यस्य विपर्ययः समारब्धः ।”