युगाचार्य-विवेकानन्दः सर्वाधिकतया परस्कोटिदरिद्राणां पददलितानां जातेर्मेरुदण्डरूपाया: साधारणजनताया भीषणाम् असहायावस्थां प्रत्यक्षीकृत्य तदीयं हृदयं दयया द्रवितमजायत । कोऽपि ऋषिस्तमभाणीदिव– “समाजजीवने सर्वेषां समानोऽधिकारः भवति । गुणानुसारिणो वर्णविभागस्य स्थाने कृत्रिमो जन्मगतजातिभेद उदपद्यत, येनास्या जातेः पतनमवश्यम्भावि | धर्मोच्चतत्त्वस्य साहाय्येन तद् दूरीकरणीयम् ।” १६४ अन्तरे परशताश्चिन्ताः समादाय स्वामिमहाभागो देवीमन्दिरस्य वेदिकाया एकप्रस्तरखण्डोपरि समुपविश्य गम्भीरे ध्याने न्यमज्जत् |* तस्य ध्यानावगाहिनि चित्ते अतीतभारतस्य उत्थान-पतनयोः तथा भविष्यद्भारतस्य सप्ताष्टशताब्दीनां समुज्ज्वलचित्राण्युदभासन्त | स नवीनं ज्योतिरद्राक्षीत् मार्गस्य सन्धानं प्राप, अन्तरे श्रीरामकृष्णस्य
- देवीदर्शनानन्तरं स मन्दिरात् निर्गत्य समुद्रे किञ्चिद् दूरे
समुत्थितं पाषाणं विलोक्य तरन् तत्र गत्वा भारतस्यान्तिम प्रस्तरखण्डोपरि उपविश्य ध्यानमग्नोऽभूत् । पश्चात् पाश्चात्त्यदेशात् स गुरुभ्रात्रे समलिखत्- ..." कुमारिकान्तरीपे मातृ-कुमारीमन्दिरे भारतस्यान्तिमप्रस्तरखण्डे आसित्वाहं चिन्तितुं प्रवृत्तः – “वयमेतावन्तः संन्यासिनो भारतवर्षे सञ्चरामः तथा जनानां दर्शनस्य शिक्षां ददामः इदमुन्मादित्वमस्ति । 'क्षुधिताय धर्मो न रोचते' इति गुरुदेवोऽकथयत् ? यदिमे निर्धनाः पशुबद् जीवनं व्यतियापयन्ति तस्य कारणं मूढतैव वर्तते ” इत्यादि । - भारतस्य दुरवस्थाग्रस्तानां समुद्धारस्य शतशश्चिन्ताः तस्यान्तरे उदिता अभवन् । अन्नाभावात् शीर्णता, जीर्णानि वस्त्राणि, युगेभ्यः निराशव्यञ्जित- नरनारीणां बालकबालिकानां पाण्डुराणि बदनानि स्वामिनो मानसपटे जीवद्रपाणि दृश्यन्ते स्म । अश्रु स्रावयन् स्वामी विवेकानन्दः देशमातुः पादयोः प्रणमन् संकल्पमकशेत् – “जननिं ! न त्वहं कामये मुक्तिम् । त्वदीया परिचर्येव मम जीवनस्यैकमात्रं व्रतम् अस्ति ।” -