पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६७ युगाचार्य - विवेकानन्दः अपि युवका: वृद्धाः पण्डिताः मूर्खाः, धनिनः निर्धनाः, उच्चपदस्था व्यक्तयः हिन्दवः ईसाई सम्प्रदायाः नास्तिका:- सर्वविधा मनुष्या: समागच्छन् । स्वामिनो मुखात् वेदान्तस्य नूतनां वाणीमा कर्ण्य सर्वे लोकाः स्तव्धाः समपद्यन्त । एकस्मिन् दिने स्वामी आलोचना- प्रसंगे प्राश्चात्त्यदेशगमनेच्छां प्रकटीचकार- "अधुना वैदिकधर्मस्य समस्ते संसारे प्रचार करणस्यावसरः समुपस्थितः । ऋषीणामस्य धर्मस्य इदानीं संकीर्णावरणान्तः बद्ध्वा स्थापनेन कार्यं न सिध्येत् । तस्य पुनःसंस्कारं कृत्वा संसारस्य समक्षं समुपस्थापनं भवेत् एवं पूर्णनोद्यमेन अस्य धर्मस्य महिमा समन्तात् प्रसारणीयो भवेत् ।” विवेकानन्द तथैव समाचरत् । वेदान्तधर्मस्य रत्नमञ्जूषाम् उन्मुक्तां कृत्वा उदारतया तस्या रत्नानां वितरणमकरोत् । तेन पृथिव्या एकप्रान्तात् अन्याञ्चलपर्यन्तं वेदान्तमहत्त्वं घोषितम् । - मद्रासभक्ताः स्वामिनः पाश्चात्त्यदेशगमनस्य इच्छां विदित्वा धनसंग्रहे संलग्ना: । अचिरादेव पञ्चशतं रूप्यकाणि संगृहीतानि अभूवन् । स्वामी तानि रूप्यकाणि विलोक्य प्रफुल्लो नाजायत । तेन कथितम्--“मम प्रिया बत्साः ! अहं अन्धकारे उत्पतनात् पूर्व भगवत इच्छां ज्ञातुं वाञ्छामि । यदि मम गमनं तस्याभिप्रेतं भवेत् तर्हि धनं स्वात्मनैव समागमिष्यति । इदां धनं यूयं दीनेभ्यो वितरत । " तदादेशः पालनीय एवाभूत् । तानि एवाभूत् । तानि रूप्यकाणि निर्धनेषु विभक्तानि । स जगजनन्याः पादयोः प्रार्थनामकरोत् । लोकशिक्षायाः तथा धर्मप्रचारात् विरामो नासीत् । मद्रासनगरस्य शिक्षिताः तथा प्रतिष्ठिताः जनाः निरन्तरम् आगमन् | तस्य यशः समन्ततः प्रासरत् । हैदराबादवासिनस्तथा सिकन्दराबादवासिनश्च स्वामिनः स्वागतार्थं एकां समितिम् आयोज्य स्वामिनं हैदराबादम् आयातुं समामन्त्रयन्त । स्वामी अनुमतिं ददौ एवं फरवरीदशमदिवसे ( १८६३ ई० ) कमण्डलुं करे निधाय हैदराबाद-शकटी विश्रामालये अवतीर्णोऽभूत् । तत्र पञ्च-