पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४७ युगाचार्य - विवेकानन्दः 'लिमडी' इत्यत्र स्वामिमहोदय- जीवनं विपदापन्नं संवृत्तम् ।. एकस्मिन् भीषणाग्निपरीक्षाभ्यन्तरे स संदानितः समपद्यत । चिरं नगरेषु स परिव्राजकरूपेण पर्यव्य नगरस्थानां केषाञ्चित् साधूनां 'अखाडे' गृहीताश्रयः समभवत् । तत्रत्याः साधवः सादरं तस्य स्वागताभि- नन्दनं विदधाना विजने सहने निवासप्रवन्धं चक्रः । अनुकूलस्थानं वीक्ष्य स्वामी तदद्ध्यवसत् । परन्तु कतिपयदिनाभ्यन्तर एव तेनाभि- ज्ञातं यत् तत्स्थानम समीचीनं नासीत इति । तत्र नानाविधा महिला आगच्छन्ति, धर्म व्यपदिश्य असत्कार्यमाचर्यत । ते 'बीजमार्ग'- सम्प्रदायानुगामिन आसन् । ते ब्रह्मोपासनामनुतिष्ठन्ति साधवः स्म । मन्त्रोच्चारणस्य आडम्बरोऽप्यलक्ष्यत । वस्तुगत्या ते प्रजावृद्धि विदधिरे । स्वामिनः शिरः प्रताडितमिव प्राकम्पत । कतिपय दिवसा- भ्यन्तरे ततः पलायितुकामनया यदैव द्वाराभिमुखं गत्वा तदुद्घाटनाय निरीक्षितं तत्र द्वारं मुद्रितमवतिष्ठते वहिः । स्वामिचरणस्य दिनचर्यायां वैलक्षण्यमालक्ष्य मस्करिणस्ते तत्र सावधाना अवर्तन्त । तदा स्त्रामी महोदयोऽवागच्छत् यत् असौ कारागारे निगडित इति । , 'अखाडाध्यक्षः' कदाचित् स्वामिपादमुपेत्येदं जगाद यत् “त्वं ब्रह्मचर्यम् अनुतिष्ठसि महान् साधकोऽप्यसि । वयन् सम्भूय एकस्य व्रतस्य उद्यापनं करिष्यामः, त्वं स्वतपस्यायाः फलं नः प्रयच्छ, ब्रह्मचर्यस्य भङ्गो विधेयः ।” इति । स्वामी जोषमवस्थाय सविशेष मुत्कण्ठया भगवत्सान्निध्ये कातरां प्रार्थनां वितेने । त्वया एको बालकः स्वामिपादपार्श्वे अन्वहमायाति स्म । स स्वामिपाड़े समधिकं स्निह्यन् आसीत् । अन्येद्यः आगते तस्मिन् स्वासीमहोदय: स्वसङ्कटं विलिख्य तद्धहस्ते निदधानः अब्रवीत् – “कथमपि त्वमि- दानीमिदं पत्रं ठाकुर साहब (लिमडी-नृप ) हस्तं प्रापय | लिमडी- राजस्य आस्थानं सर्वोऽपि अवारितं यातुमपारयत् । बालकहस्तात् तन् पत्रमासाद्य राजा स्वामिमहोदयसाहाय्याय कांश्चिदङ्गरक्षकभटान्