पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः व्यवगच्छति स्म यद् द्वित्राणां राजमहाराजानां वदान्यतया सदा शयेन वा भारते प्रसृतस्य दुःखदारिद्र्यस्य लघुकरणं स्तोकमेव शक्य- तम्भवम् । स्वामिनो बहिर्भारतं पाश्चात्त्यदेशेषु परिभ्रमणस्य कल्पनाऽपि भारतीयानां दुःखमोचनं लक्ष्योकृत्यैव प्रवृत्ता। स चाकथयत् – “अहं समयं भारतदेशं पर्यभ्रमम् ।सर्वत्र भयावहं दुःखदारिद्र्य निज- लोचनाभ्यामवालोकयम् । अवलोक्य चाहं विक्षन्धोऽस्मि । नयनाभ्यां वाष्पं धारासम्पातं निरन्तरं पपात । तस्मादेव जनसाधारणस्य दुःख- मुक्तेरुपायान्वेषणार्थमेव साम्प्रतमहम् अमेरिकां गन्तुं प्रवर्ते ।” १४५ स्वामिमहोदयो दारिद्रयार्तायाः स्वाभिजनजनतायाः समुद्धाराय धनसाहाय्यप्रार्थी भूत्वा यद् भैक्षचीवरम आदाय धनकुबेराणां देशं अयासीत् तस्य चोवरस्य तदात्व एवापूरणेऽपि तेपामावेदनं बधिर कर्णजापो नाजायत । सः मानवात्मनः कोमलां हृदयतन्तुं स्पृष्टवान् एवासोत् । स मानवताया अन्तराले एकतायाः विश्वभ्रातृत्वस्य च सन्देशमुबोधयत् । तस्य मुखात् मानवसमाजं प्रतिदीन-हीनानां कृते सहानुभूतिः प्रार्थनात्मना निर्गता बभूव । अद्यत्वे प्राच्यानाम् अनुन्न- तानां जातीनां कृते अपरिमिता सहायता यत् पाश्चात्त्य देशेभ्यः समा- याति तदिदं श्रीस्वामिचरणैस्तदानों तत्र प्रकटितस्य वाक्पाटवस्यैव फलम् । दातॄणां मनसि राजनैतिकं प्रयोजनं नूनं स्यादेव ( सर्वथा निःस्वार्थी सहायता खपुष्पायितैव ) तथापि प्राच्या निरवधयो नार्यो नराश्च तेन धनेन सुष्टु उपकृताः, इदमस्वीकर्तुं दुःशकम् । तेन मानव- जाते: हृदयाभ्यन्तरे यद् विश्वमानवताबीजम् उप्तमासीत् तत् श्रीराम- कृष्णदेवस्य जीवनसलिलेन सिक्तमभूत् । तस्मादेव कारणात् तद् बोजं कदापि शुष्कतां न व्रजिष्यति । , स्वामिमहोदयस्य कीEग् जोवनव्रतमवर्तत तत् तस्यैकस्मात् पत्रात् आभासते–“एकतस्तु भारतस्य तथा विश्वस्य भाविधर्म- सम्बन्धे मामकोना परिकल्पना, अपरतस्तु येषामुपेक्षितानां परोलक्षाणां १०