पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः “प्रभो ! मम अवगुणान् चित्ते मा कुरु भवतो नाम समदर्शी अस्ति, कामं पारं प्रापय । एकं लौहं देवसदने, एकमरित व्याधागारे । स्पर्शमणे: मनः द्वधा न भवति द्वे अपि काञ्चनं करोति ।

एका माया एकं ब्रह्म उच्चैरुच्यते सूरदासेन– अज्ञानेन भेदो भाति, ज्ञानी कुतो भेदं विदधीत ?” १४४ अत्र व्यंजनाविधया ज्ञानं स्वामिनोऽन्तरं पस्पर्श । स निस्तब्धः अतिष्ठत् । ‘सर्वं खल्विदं ब्रह्म' – इदं केवलं कथनमात्रं किम् ? संन्या- सिनः समदर्शिनो भवन्ति । अनुनापतीक्ष्णशरेण विद्धोऽभवत् ।" पतिताया गानेन तस्यान्तरम् आलोकचमत्कृतं संवृत्तम् । स तदानीमेव अंजलिमायोज्यावोचत् “मातः ! मां क्षमस्व, भवत्यां घृणां कृत्वा प्रस्थातुमैच्छम् । श्रीमत्या गानेन मम चैतन्यमुज्जीवितमिव ।..." स तस्मिन् दिने महतीं शिक्षां प्राप्नोत्, व्यवहारभूमिकायां स साति- शयं समदर्शी समपद्यत । स्वामिपादः केवलं सौधमधिवसन्नेव नावर्तत । स प्रजाजनानां सुखदुःखयोः भागग्राही अप्यासीत् । राजपुतानाभागे अटायमानः स निर्धनानां शोचनीयदशाया विशेषेण परिचयमवाप्य तत्प्रतीका- रार्थमचेष्टत । स राजसु सामन्तेषु धनाढ्येषु च जनसेवाभाववीजम् उद्वपत् । स्वामिपादस्य उपदेशानुगुण्येन खेतडीराजः निजराज्ये प्रजानामुन्नयनार्थं विविधान् प्रवन्धान पर्यकल्पयत् । राज्ञां हस्ते सामर्थ्यम् अवर्तत । अस्मादेव कारणात् स्वामिमहोदयस्तैः सह सम्पर्क- मभ्यलपत् । तेषां मनसि परिवर्तनमाधातुं स सचेष्ट आसीत् । भूम्ना साफल्यमपि तत्र समासादितम् । यत्र क्वापि स्वामिमहोदयोऽगमत् तत्र सर्वत्र धनाढ्यान् दरिद्राणां भरणार्थं आवेदयाञ्चकार । स इदम-,