१४३ युगाचार्य विवेकानन्दः “स्वामिनः ! भवादृशा विद्यार्थिनः दुर्लभाः ।" तदर्हम् अध्येतारमा- साद्य पण्डितः सोत्साहमध्यापनं विदधे | परन्तु स्वामिमहोदय एता- दृशान् कूटप्रश्नानुदद्भावयत्, येषां समाधानं सहसा पण्डितानां कृते दुष्करं समपद्यत । राजसत्तमः स्वामिचरणस्य जीवनं दर्श दर्श श्रद्धान्वितो भूत्वा पर्यन्ते स्वामिमहोदयं गुरुत्वेनावृणोत् । स्वामिचरणः अपि राज्ञः श्रद्धा- भक्ती समालक्ष्य तं शिष्यत्वेन स्वीचकार । भवान् खेतडीराजः अनपत्यो बभूव । एकदा स स्वामिपादस्य पुरः नितान्त- कार्येण स्त्रान्तर्दुःखमावेदयत् – “अह्मसन्तानोऽस्मि । आशिपाऽनुगृह्णातु, येनाहं पुत्री स्याम् । भवदाशीर्वादः कदाऽपि वैफल्यं नास्यति ।” राज्ञः भक्तिप्रश्रयौ लोकं लोकं स्वामिनश्च चित्ते कारुण्यं संचचार । स राजानं आशिषाऽन्वगृह्णात् । सा चाशीरचिरादेव फलवती संवृत्ता । हायनद्वयाभ्यन्तर एव राज्ञः एकः पुत्रोऽजायत । राजा स्वामिमहोदये एतावदाकृष्टोऽजायत यत् स क्षणमेकमपि श्रीस्वामिचरणविश्लेषं नासहत । अयं भक्तिभाव एतावतीं भूमिं गतः यत् स निशीथेऽपि समुपेत्य श्रीस्वामिनश्चरणपरिचर्या विद्धाति स्म । एकदा स निज- वयस्यैः सार्धं प्रमोदकाननं जगाम । गानगोष्ठ्यां गायिका बीणया सह मधुरं गातुं यदा उपचक्रमे तदा राज्ञ इदमस्फुरत् यत् अहह !! यदि श्रीस्वामी इदमाकर्णयिष्यत् नूनं प्रसन्नः अभविष्यत् । तदैव स स्वामिपादमामन्त्रयितुं स्वामात्यं प्राहिणोत् । श्रीस्वामी समाययौ । राजादेशेन एका नर्तकी गातुमुपाक्रमत, परन्तु बैगकण्ठात् गाने श्रुत एव स्वामिमहोदय आसनात् उदतिष्ठत् । राजा करौ बद्ध्वा निवेदितवान् "गुरुपाद ! एकं गानं श्रयताम् ।” राज्ञोऽनुरोधात् स्वामिना स्थात- व्यम् आपतितम् । नर्तकी भक्तिस्निग्धं भक्तकविवर -सूरदासस्य एकं पद्मगायत् ।
पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१५३
दिखावट