युगाचार्य - विवेकानन्दः स्वामिमहाशयस्य गम्भीरं शास्त्रज्ञानं विलक्षणविश्लेषणसामर्थ्य तथा आध्यात्मिकानुभूतिञ्च विज्ञाय सुतरां मुग्धो बभूव । स एव प्राथमिकः संस्तवः क्रमशः गम्भीरेऽन्तरङ्गभावे परिणतोऽभूत् । अनुदिनं राजा स्वामितल्लजे एधमानश्रद्धः संवृत्तः । विविधाः समीक्षा जायन्ते स्म । धर्म-संस्कृति-सभ्यता-राष्ट्र-मानवजीवनोद्देश्यप्रभृतीन् विषयानधिकृत्य तयोर्गोष्ठी आलोचनाश्चाभवन् । १४२ - अधुना राज्ञः खेतडीपरावर्तनस्य समय उपस्थितः । धर्मप्राणो राजा अजितसिंह एकस्मिन् दिवसे नितान्तनम्रभावेन स्वामिसत्तमस्य समक्षम् आवेदितवान् – “ग्वामिचरणाः ! कृपया श्रीमन्तो मम राज्ये पदे निदधतु। अहं विशेषतो भवत्सेवायाम् अवधास्ये।" राज्ञो महता आग्रहेण स्वामी महोदयः तां प्रार्थनां स्वीकृतवान् । कतिपयदिवसा- नन्तरं राजा सचिवाद्यनुयायिभिः श्रीस्वामिमहोदयेन च साकं खेतडों प्रातिष्ठत । धूमशकव्या जयपुरं यावदाजगाम । ततः नवतिक्रोशार्धान् राजशकटेषु सर्वेषां यात्रा समजनि । स्वामिमहोदयः 'खेतडी' - नगरे राजानुरोधेन कतिचन सप्ताहान- वसत् । राजप्रासादेऽपि सर्वत्यागिनः संन्यासिनो जीवनं निर्वहन्नेव आसाञ्चक्रे । 'खेतडी'- प्रवास समय: साधनस्वाध्याय - शिक्षा-दानेर- विच्छिन्न आसीत् । तस्याधिकः समयो ध्यान-साधने व्यतीयाय | विविधोपदेशस्तस्य नित्यकृत्याङ्गमेव बभूव । न केवलं राजा, अन्येऽपि प्रतिष्ठिता उच्चाधिकारिणो विशिष्टा नागरिकाश्च उपदेशं श्रोतुं तदन्ति- कमायान्ति स्म । 'खेतडो'- राज उदाराशयो गुणग्राही चासोत् । तस्य आस्थानपरिपद संस्कृतस्य प्राच्यप्रतीच्यदर्शनस्य चाभिज्ञा अनेके विद्वांसोऽवर्तन्त । राजसभा-पण्डितो नारायणदासः समस्ते राज- पुतानाप्रान्ते अद्वितीयो वैयाकरण आसीत् । स्वामिमहोदयस्तदन्तिकं पातञ्जलं महाभाष्यमध्येतुं व्रजति स्म। द्वित्रदिनैरेव स्वामिचरणस्य अनितर साधारणं बहुश्रुतत्वं विदित्वा नारायणदासपण्डितः प्रोवाच -
पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१५२
दिखावट