पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्द वंशज आसीत् । पुतानाप्रदेशे सविशेषमाद्रियमाण-ताजिमी-सरदारस्य तस्यान्ववायस्य एतावान् सम्मानः अवर्तत यत् कोऽपि ताजिमी- सरदारः कस्यापि राज्ञ आस्थानमण्डपमायातश्चेत् राजा स्वयम् सिंहा- सनादुत्थाय तं समाद्रियते स्म । कौपीनधारी स्वामिमहोदयस्तदैव विश्रामानन्दमन्वभवत् । जगमोहनलालः आलोचक-बुद्धया समायात आसीत् । स्वामिमहोदयेन साक्षात्कारे जाते स तमप्राक्षीत् – “यूर्य, हिन्दुसंन्यासिनः स्थ । मुस्लिमसदने कुतो निवसथ ?" १४१ । स्वामिमहोदयोऽनुपदमेव उत्तरयांचक्रे - “महाशय ! अहं संन्यासी किल, सामाजिका आचारनियमा मां नानुबन्नन्ति । अहं तावत् श्वपचेन सहापि भोक्तु ं प्रवर्तेय । ब्रह्म सर्वत्र प्राणिषु विराजते । सर्वेऽ- पीश्वरमूर्तयः सन्ति । ब्रह्मविद्यायां कृतपदानां भेदः अभेदो वा, नीचता वा स्पृश्यास्पृश्यता च “नित्र्यैगुण्ये पथि विचरतां को विधिः को संचरिष्णूनां त्रिगुणातीतपुरुषाणां कृते विधिनिषेधौ एकरूपौ। यूयं शास्त्रं भगवन्तं वा सोपेक्षमवहेलयथ । " उच्च- विलप्यते । शास्त्रमपीदं समर्थयते— निषेधः ?” मुक्तिमार्गे स्वामिमहोदयस्य तीक्ष्णेन प्रतिवाक्येन जगमोहनलालः जोषम्भावं नाभजत । स नानाविधान् तर्कवितर्कानुद्भावयति स्म । परन्तु स अचिरादेव मौनं भेजे । स मुग्धोऽजायत, तस्य हृदयं विलोडितमभूत् । नैप केवलो वार्तालापः ! राजा एतेन महानुभावेन कृतपरिचयो विधेयः इतिस निरणैषीत् । सचिव-मुखात् संन्यासिनो वृत्तंमवगत्य राजा तदर्शनार्थमुद्यतोऽभूत् । इदं त्रिज्ञायैव स्वामिमहोदयः राजसाक्षा- त्काराय स्वयम् अग्रेपदो बभूव । राजा अभ्युत्थानपुरस्सरं परमश्रद्धया स्वामिमहोदयमासने समु- प्रावर्तत पावेश्य स्वयमेवमुत्थित एव नानाप्रकारान् प्रश्नान् प्रष्टुम् "किं तावद् जीवनम् ? कोऽसौ धर्म: ? का सा शिक्षा ? नीत्यनु- शासनं कीदृशम् ?” इति सर्वेषां प्रश्नानामुपपन्नमुत्तरं लब्ध्वा राजा