युगाचार्य-विवेकानन्दः - किन्तु उपरि गच्छदस्ति, चन्द्रसूर्यनक्षत्र मण्डितं स्थूलं जगदतिक्रामत् - मनो भावजगति सूक्ष्मे पूर्व प्रविवेश । उभयतो मार्गमनेकदेवदेवीनां ? भावघनविचित्रमूर्त्तयो विराजमाना अदृश्यन्त । क्रमशो मन उक्तराज्यस्य चरमसीमानमध्यरोहत् । तत्र मया दृष्टम् - एकं ज्योतिर्मयं व्यवधानं प्रसारितं भूत्वा खण्डमखण्डं च राज्यं पृथक् कुर्वदास्ते । द्वितीये क्षणे परिलक्षितम् यद् दिव्यज्योतिर्घनतनवः सप्त प्रवीणा ऋषयः समाधिस्थाः समुपविष्टाः सन्ति । एतद् विज्ञातं यत् ज्ञानपुण्य- योस्त्यागप्रीत्योर्मानवानां का कथा, देवदेवोनामपि परस्तादेते सन्तिष्ठन्ते । विस्मितो भूत्वा एतेषां महत्त्वविषये परिचिन्तयन्नहमवालोक्यम्- पुरतोऽवस्थिताखण्डगृहस्य भेदविरहितसमरसज्योतिर्मण्डलस्यैकांशो घनीभूतो भवन् दिव्यैकशिशुरूपेण परिणतोऽभवत् । देवशिशुरसौ तेषाम् ऋषीणामेकस्य समीपं गत्वा स्वीयसुललितबाहुभ्यां प्रेमपूर्वकं तस्य कण्ठदेशमालिलिङ्ग । तदनन्तरं च वीणाविनिन्दिकया निजामृत- मयवाण्या सादरं शब्दापयन् तं समाधितो व्युत्थापयितुं प्रयत्नमकार्षीत् । तदोयसुकोमलप्रेमपूर्णस्पर्शत ऋषि: समाधितो व्युत्थितो भूत्वा बालक- मपूर्वमिममर्धोन्मुक्तप्रसन्ननिर्निमेषनेत्राभ्यामपश्यत् । ऋषेर्मुखमण्डलस्य प्रसन्नोज्ज्वलभावमवलोक्येदं प्रतीयते स्म यद्यं बालकोऽनादिकालत- स्तस्य सुपरिचितो हृदयधनमिवासीत् । तदानों देवशिशुरयमसीमा- नन्दं प्रकाशयन् तमवोचत्- 'अहं गच्छामि, भवताऽपि मया सार्ध- मागन्तव्यम् ।' , तदनुरोधात् ऋषिः किमपि नोक्तवान्, किन्तु स्वकीयप्रेम पूर्णनयनाभ्यां नैजामान्तरिक सम्मतिमसौ प्रकटयाञ्चकार । ततश्च तथैव प्रेमदृशा कियत्कालं बालकं विलोकयन्नसौ पुनः समाधौ न्यमज्जत् । ततो मया विस्मितेनावलोकितम् - तदीययोः शरीरमनसोरेकांशः समुज्ज्वलज्योतिः-
पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१३
दिखावट