युगाचार्य- विवेकानन्दः स्वरूपेण परिणमन् विलोममार्गतो धराधामावतरन्नस्ति | नरेन्द्रमवलो- कयतैव मया परिज्ञातं यदयमेवासौ ऋषिः ।”* श्रीरामकृष्णदेवेनान्यदपि प्रोक्तम्- “नरेन्द्रः सहस्रदलकमलसमानः । अनेकेऽतीतसंख्या जना अत्र समायान्ति, किन्तु नरेन्द्रतुल्य एकोऽपि नागच्छत् ।” कन्सररोगसमाक्रान्तः श्रीरामकृष्णदेवः काशीपुरोद्यानभवनेऽतिष्ठत् । जीवकल्याण-स्वरूपकार्य समाप्तेरनन्तरमिदानी मसौ महाप्रस्थानाय प्रतिष्टमानोऽभूत् । एतत्कठिनरोगस्याभ्यन्तरेऽपि तस्य विश्रान्तिर्नासीत् । विशेषतस्त्यागिनः शिष्यान् असौ साधनभजनत्यागतपस्यादिमाध्यमेन युगचक्रपरिचालनाय प्रस्तुतान्' कर्तुं प्रावर्त्तत | नरेन्द्रनाथस्यापि मनसि तदानीं निर्विकल्पसमाधिमधिरोढुं तीव्रतराऽऽकांक्षा प्रादुर्बभूव । तेन श्रीठाकुरः साग्रहं प्रोक्तः–" मम समीहा भवति, यदहमपि शुकदेव इव पञ्चपदिनानि यावन्निरवच्छिन्ने समाधौ तिष्ठेयमिति । तदनन्तरमपि केवलं देहरक्षायै किञ्चिन्नोचैरवतीर्य पुनः समाधावेव निमज्जेयमिति ।” , नरेन्द्रनाथस्य कातरामभ्यर्थनामाकर्ण्य सहसैव भावान्तरमवस्थितः श्रीठाकुरो निर्भर्त्सयन् तमुवाच – “हन्त, हन्त, त्वमेव महानाधारः, तवैव मुखात् एतादृशी वार्ता ! मयाऽवधारितं यत् त्वमेको विशाल- वटवृक्ष इव भविष्यसि, तव च्छायायां च सहस्रशः स्त्रीपुरुषा आश्रय- मङ्गोकरिष्यन्ति – एतन्नानुष्ठाय निजामेव मुक्तिमिच्छसि ?” नरेन्द्रनाथस्यैतत्परिज्ञातमभूत् यत् श्रीठाकुरस्य हृदयं कियन्म-
- श्रीरामकृष्णदेव एव स्वयं तद्देवशिशुरूपं गृह्णन् ज्योतिर्मण्डलस्यान्यत-
मस्य ऋषेः कण्ठमालिङ्गन् स्वीयलीलासहचररूपतो नरदेहेऽवतरणाय तम् अनुरुरोध ।