पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः अष्टादशवार्षिकं नरेन्द्रनाथं प्रथमतः पश्यन्नेव श्रीरामकृष्णदेवः पर्यचिनोत् । स परिज्ञातवान् यत् कोऽयं नरेन्द्रनाथः, कथं च जन्म गृहीतवान् । सहैव च तदीययोगदृष्टिसम्मुके नरेन्द्रनाथस्य सम्पूर्णमपि जीवनचित्रं दिनप्रकाशवत् प्रकाशितमभूत् ।" MODE - एकदा दक्षिणेश्वरे श्रीरामकृष्णगृहे केशवचन्द्रसेन गोस्वामिविजय- कृष्णादयो ब्राह्मनेतार उपविष्टा अभूवन् । युवकनरेन्द्रनाथमाष्टरमहाशय- प्रभृतयो भक्ता अपि तत्रोपस्थिता आसन् । अनेकप्रकारेण ईश्वरीयप्रसङ्ग समालोचना बभूव । केशवविजयादिषु गतेषु नरेन्द्रनाथाभिमुखं स्नेह- दृशा समीक्ष्य श्रीरामकृष्णदेवेन प्रोक्तम्- “दृष्टं मया, केशवो यस्या विशेषशक्तरुत्कर्षेण जगविख्यातोऽभवत् नरेन्द्रस्याभ्यन्तरे तादृश्यो- ऽष्टादशशक्तयः परिपूर्णमात्रया विद्यन्ते ।” तेनान्यदपि व्याहृतम् - "विलोकितं मया, केशवविजयाभ्यन्तरं दीपशिखयेव ज्ञानालोकेन प्रकाशते, किन्तु नरेन्द्रस्याभ्यन्तरे समुदितो ज्ञानरविर्मायामोहलेशमपि निराकुर्वन्नास्ते ।" ." श्रुत्वेदं नरेन्द्रनाथस्तस्याभिमुखमेव प्रतिवादं कुर्वन्नाह - "महाशय, किमुच्यते ? एतादृशवार्ताप्रतिपादनेन लोका भवन्तं विक्षिप्तं कथ- यिष्यन्ति, जगविख्यातः केशवसेनः महामना विजयगोस्वामी च कुतः, कुतञ्च मादृशो नगण्य एकः कालेजस्य छात्रः ! भवान् एताभ्यां सह मम तुलनां कृत्वा पुनरेतादृशीं वार्ता कदापि न कथयतु ।” " विहसन् श्रीठाकुरः प्रोवाच - "किं करोमि पुत्र, त्वमवधारयसि अहमेवेदं ब्रवीमि ! माता ( जगदम्बा ) मां दर्शयति, तदैवाहं कथयामि ।” नरेन्द्रनाथस्य दक्षिणेश्वरागमनात् पूर्वं श्रीरामकृष्णदेवेनैकमलौकिकं दर्शनं कृतम् । अत एव तेन नरेन्द्रनाथस्वरूपसम्बन्धे सर्वमेव परिज्ञातम् । स होवाच -- “एकदाऽहमपश्यम् - मनः समाधिपथेन ज्योतिर्मयमार्गेण