पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः ११८ स्त्रीजातिसमुन्नतिमन्तरेण जातेरभ्युत्थानमसम्भवम्, अस्मादेव कारणात् श्रीरामकृष्णदेवः सारदादेवीमपूजयत् । भैरवीं ब्राह्मणीञ्च गुरुरूपेणागृह्णात् । बर्तमानयुगकल्याणार्थमेव तदीय - ( श्रीरामकृष्णस्य / मातृभावप्रचारो बभूव । अलमोड़ायां तस्य मनो नारमत । बिशेषतो गृहजनानां तस्य संकेतो विदितोऽभवत् । स ततः स्थानान्निर्गतः । गढवालमार्गतः प्राचलत् । सह त्रयो गुरुभ्रातर आसन् । कर्णप्रयाग परित्यज्याग्रे sगच्छत् । तदानीं काले एकत्र विश्रामस्थानेऽखण्डानन्दः सहसा अस्वस्थता मगच्छत् | तंत्र दिनत्रयं स्थितिरभवत् । किंचित्स्वास्थ्यमासाद्य सर्वे मार्गस्याहा नेनाग्रे संचेलः । तस्मिन् वर्षे सर्वत्र पार्वत्यप्रदेशेऽन्ना- भावरूपः अकालः प्रसृतो बभूव । पर्वतीयपुरुषाः वृक्षस्य मूलं पत्र स्त्रीणां ज्ञानार्जनाधिकार आसीत् । वर्तमानयुगे ताः तदधिकारवञ्चिताः कथं भविष्यन्ति ? ... वेदपाठानधिकारिणोऽकार्बु - अग्निहोत्रवत् “अवनतियुगे यदा पुरोधसः ब्राह्मणेतरान् स्तदानीमेव ते स्त्रियोऽपि तादृशसर्वाधिकारवञ्चिताः कृतवन्तः । वैदिकेष्वन्यकर्मस्वपि गृहस्थस्य सहधर्मिण्याः प्रयोजनमभवत् । परन्तु पौरा- णिकयुगे प्रचलितशालिग्रामशिलादिगृहदेवतास्पर्शाधिकारोऽपि स्त्रीणां नासीत् ।... आर्य्याणां सेमिटिक-जातीयानां च दृष्टया नारीणामादर्शः सम्पूर्णतया विपरीतः । 'सेमिटिक' मते नारीणां साहचर्य्यम् ईश्वरभक्तिकृते हानिकारकमास्ते । अतः कारणात् कुत्रापि धर्मानुष्ठाने नारीणामधिकारो नास्ति । परन्तु आर्यमते स्त्रियो विरहय्य पुरुषाणां किमपि धर्मानुष्ठानं पूर्णाङ्गं न सम्पद्यते । यथा पक्षी एकेन पक्षेणोडुयितुं न प्रभवति तथैव स्त्रियं परित्यज्य कापि जातिनोंत्थातुं शक्नोति — न वा कोऽपि समाजः समुन्नतो भवितुमर्हति । दक्षिणभारते द्रविडाः सुसभ्या आसन् । तेषु नारीणां स्थानं समुन्नतं बभूव ।”