युगाचार्य-विवेकानन्दः च भक्षयितुमारब्धवन्तः । सर्वकारेण यात्रिणां कृते यात्रामार्गोऽवरुद्धः । स्वामी केदारबद्रीदर्शनस्याशां परित्यज्य रुद्रप्रयागाभिमुखं प्रतस्थे । चतुर्दिक्ष अनिर्वचनीय-सौन्दर्य-सम्भार: विशाला स्तब्धता चासीत् । मध्ये मध्ये गिरिनिर्झरिणीनां कल-कल-निनादः सुमधुर हास्यसंगीतवत् चिरतुषार-मण्डित- गिरि-शृङ्गाणां हिमालयस्य रूप वैभवं स्वामिनो बाल्यकालस्य स्वप्नः सुखविलासञ्चासीत् । स च विरा-ध्याने निमनो बभूव ।... प्रावहत् । चानुपमं रुद्रप्रयागस्यानन्तरं शैत्यपूर्वको ज्वरः स्वामिनः समायातोऽखण्डा- नन्दोऽपि रुग्णतां गतः । अगत्या एका धर्मशाला सर्वैः समाश्रिता । दैवयोगेन सर्वकार- 'सदर अमीन:' निकट एव वितानं प्रसारितवा- नासीत् | सारदानन्देन स्वामिनः अस्वस्थताया वृत्तान्ते निवेदिते अमीनेन कानिचित् वैद्यकानि औषधानि दत्तानि । तेनोभयोर्ज्वरो व्यपगतः । सदर-अमीनः स्वामिनो वार्तालापेन विशिष्य प्रसन्नो जातः । तेन दाण्डोसहायेन ते अलकनन्दा-कूले श्रीनगरे प्रेषिताः। किंचित् स्वास्थ्यमवाप्य सर्वे ध्याने भजने च निमग्ना बभूवुः । अवकाशकाले उपनिषदामध्ययनमालोचनं च प्राचलत् । कियदिनानन्तरं स्वामी गुरुभ्रातून गृहीत्वा टेहरीजनपदाभि- मुखं प्रतस्थे । पार्वत्यप्रदेशेषु दुर्भिक्षं प्रसृतमासीत् । कुत्रापि भिक्षा न लभ्यते स्म । अनाहारेण मृतप्रयावस्थायां वर्तमानाः सर्वे शनैः शनैः गढ़वालस्य राजधानीं टेहरीमुपतस्थुः । एकत्रानुकूले न्यवात्सुः । यत् किंचिद् सिक्षान्नम् अलभ्यत तेन स्वामी निःसंगताया आनन्दे रात्रिंदिवममज्जत् । कुटीरे सर्वे तृप्तो भवन् कदाचित्तु स वेदान्तस्य आय्यमहर्षीणां जीवनस्य चालोचनामकरोत् । स च जगाद - “अस्मा- - भिरार्य्यमहर्षिभिः भवितव्यम् । ऋषित्वपदवीमारूढैर्भाव्यम् ।” घटनाचक्रतः राज्यदीवानरघुनाथभट्टाचार्येण महाशयेन सह स्वामिनः परिचयो जातः । स हि पंडितप्रवर- हरप्रसादशास्त्रिणो
पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१२९
दिखावट