पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः जीवनस्य रक्षा बभूव । इमां घटनां समुल्लिखता तेनैकदा प्रोक्तम्- ‘तेन मानवेन सत्यमेव तस्मिन् दिने मम प्राणाः रक्षिताः । एतावान् कातर इतः प्राक् कदापि नाहमभवम् ।" बुभुक्षया चिरतुषार- बभूव । दीर्घपथ-परिश्रमस्यानाहारस्य मण्डिता भ्रभेदिनो हिमालयस्य अपूर्वमानन्दं शान्ति च प्रायच्छत् । चेतसि हिमालयभ्रमणस्य प्रथमोंऽश: स्वामिनः कृतेऽत्यधिक सन्तोषप्रदो चाभ्यन्तरेऽपि शान्तं भावगाम्भीर्य्यं तस्य अलमोड़ोपत्यकायाः मार्गः स्वामिनः अखण्डानन्दस्य परिज्ञात आसीत् । अम्बादत्तस्योद्यानभवने साधूनां महात्मनां कृते समुदारप्रबन्धोऽभूत् । द्वावपि तत्र गत्वा स्थितौ। सारदानन्दः कृपानन्दश्च पूर्वत एवालमोड़ास्थाने अस्ताम् । समाचारमासाद्य तावपि तत्र समुपस्थितौ । 'बद्रीशा-ठुलपरिया' नामको विशिष्ट एक पुरुष: अलमोड़ास्थाने आसीत् । बहुवर्षपूर्वं स्वामिना शिवानन्देन सह तस्य परिचय: आलाप- इचाभूताम् । स हि श्रीरामकृष्णस्योपरि विशेषश्रद्धासम्पन्नो बभूव । स्वामिनः आगमनसमाचारमाकर्ण्य तं स्वगृहमानेतुमसौ समागच्छत् ! सारदानन्दः कृपानन्दञ्च उभावपि तस्यैव गृहे स्थित्वा साधनं भजनं च अकुरुताम् | स्वामिनापि तत्र गन्तव्यमभवत् । चत्वारोऽपि गुरुभ्रातरः सहैव स्थित्वा साधने भजने शाखालोचने च बहून् दिवसान् आनन्देन व्यतियापितवन्तः । तत्रैव सहसा कलिकत्तातः स्वामिनः कनीयस्या भगिन्या आत्महत्याया: समाचारः तन्त्रीद्वारा प्राप्तः । स बाणविद्धः खग इव व्याकुलीबभूव । ततश्च पत्रेण भगिन्या: शोचनीय मृत्युसम्बन्धे विस्तारितसमाचारमवगत्य स्वामिनो दुःखस्य सीमा नासीत् । स उन्मत्त इव बभूव । लघीयस्या भगिन्या मृत्युकारणादेव न हि, प्रत्युत प्रेयस्या भगिन्या जीवनं निष्ठुरहिन्दुसमाजवेद्यां बलिरूपेण प्रदत्तमभूत् । भगिनीशोकजनकमृत्युवार्तामवगत्य तदीयं मनः हिन्दु-