पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः स्वामिनो विवेकानन्दस्य जीवने एकस्य ब्रह्मज्ञानस्य विशेषतः प्रयोजनमासीत् । सर्वोऽपि ब्रह्मप्रकाशः ईश्वरस्यैवांश:- एतस्यामनु- भूत्यां प्रतिष्ठितो भूत्वा एवासौ संसारस्यागणितनरनारीणां शिवज्ञानेन सेवां कर्तुमशक्नोत् । तेन प्रतिपादितम्- ११५ DIV "बहुरूपे सम्मुखे तोमार छाड़ि कोथा खुँजिछ ईश्वर । जीवे प्रेम करे जेइ जन, सेइ जन सेविछे ईश्वर ।” - अर्थात् ईश्वरस्तव सम्मुखेडनेकरूपेण विराजते । तं परित्यज्य कुत्र त्वम् ईश्वरम् अन्वेषिष्यसि ? जीवेषु यः प्रेम करोति स एव यथार्थतः ईश्वरस्य सेवा कुरुते । - प्राणिमात्रस्य सेवैव जगदीश्वरसेवा | तस्य ब्रह्मदृष्टिः केवलं मनु- प्येपु सीमिता नासीत् । तदीया करुणा सर्वेषु जीवेषु अतिष्ठत् । अत एव तेन 'जीव-प्रेम्णः' मन्त्रः श्रावितः । अलमोड़ा-मार्गे स एकस्थाने बुभुक्षापिपासामूर्छितो भूत्वा मार्ग- स्यैकमागेऽपतत् । स्वामी अखण्डानन्दो निरुपायो भीतश्च बभूव । स धावन जलान्वेषणे निर्गतः । दैवयोगात् एको माहम्मदीयः साधु- स्तेनैव मार्गेणागच्छत् । स्वामिनो मूर्च्छाया: कारणमवगत्य पार्श्ववर्ति- कब्रिस्तान-निकट स्थित स्वपर्णकुटीरतो शीघ्रं गत्वा एकं 'खीरा' -नाम- फलं समानीय, तं भोजनायार्पयत् । एतेनैव तस्मिन् दिने स्वामिनो दितः समष्ट्यात्मा ( हिरण्यगर्भः ) वर्तते । शिवः शिवामालिंग्य तिष्ठति इति केवलं कल्पनामात्र नास्ति । शब्दे तत्- प्रतिपाद्यार्थे च योऽभेदसम्बन्धः स एव सम्बन्धो जीवात्म-परमात्मनोरभ्यन्तरेऽवस्थितो वर्तते । वस्तुत एकस्मिन्नेव वस्तुनि केवलं बुद्धिभेदेन पार्थक्यमनुभूयते । - शब्दं विना विचारो न संभवति । अत आदौ केवलं शब्दमात्रमासीत् इति सत्यम् । एकस्य परमात्मन एवंविध- भावद्वयेनानुभूतिरनादिकालतो वर्ततेऽतो वयं यत्किञ्चिदनुभवामः, तत् अनादि- साकार - नित्य-निराकार सम्मिलितं ज्ञानमेवास्ते ।"