पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०० युगाचार्य - विवेकानन्दः तत्त्वोपदेशमधिगन्तुं तं शरणीकृत्योपाविशत् । स्वामिना गानमेकं श्राव- यित्वा तदुत्तरं प्रदत्तम् । गानस्याशयो यथा - “ज्ञानं यदि लव्धुमिच्छसिं, मुखचन्द्रे भस्म धारय, अन्यथेदानोमिव पन्थानं पश्य ।” गानस्याशयेन शरदबाबूमहाशयः सातिशयं प्रभावितोऽभवत् । तेन स्वामिन इङ्गितमबाबुध्यत | त्यागमन्तरेणामृतत्वं न लधुं शक्यते । तेन करौ बद्धवा प्रोक्तम् - "भवत आदेशेनाहं स्वकीयानसूनपि परित्यक्तुमुद्यतोऽस्मि ।” कि हिनानि यावत् हाथरसवासिनामन्तःकरणेषु आध्यात्मिक भावमाविर्भाव्यैकदा स्वामिना प्रोक्तं यदसौ द्वितीये दिवसे हृषीकेशं गमिष्यति । अधिकदिनमेकत्र निवासः संन्यासिनां कृते नोचितः । किन्तु शुरद्वाबूमहाशयः स्वामिनं परित्यज्य न स्थातुं शक्ष्यति । स च स्वामि- नोऽनुगमनाय कृतसंकल्पः स्वीयहृदयसमीहामव्यंजयत् । स्वामिना तं परीक्षितुमिदमुक्तम् – “किं सत्यमेव त्वं मया सह गन्तुं प्रस्तुतोऽसि ? किमभिमानमहंकारं च परित्यक्ष्यसि ? किं दारिद्रयङ्गीकरिष्यास ?” शिरो नमयित्वा स्वसम्मतिं व्यंजयन्तं शरद्वाबू महोदयमसौ 1 प्रोवाच – “ममेदं भिक्षापात्रं गृहाण द्वारं द्वारं गत्वा भिक्षां गृहीत्वा समागच्छ " धूम्रयानालयाध्यक्षः ( स्टेशनमास्टर ) निःसंकोचं हस्तौ प्रसार्य भिक्षापात्रमगृहात् । स्टेशनस्य भारवाहकेभ्यः ( कुली ) अन्येषां च गृहेभ्यो भिक्षां ग्रहीतुं प्रवृत्तः । नितरां प्रीतिमापन्न: स्वामी तेन सहा- गन्तुमाज्ञप्तवान् । तपोभूमि हृषीकेशमागट स्वामी सविशेषमाननन्द । साधारण- साधुवदसौ सह शिष्येण भिक्षानबाहरन् साधने भजने च कालमत्य- वाहयत् । तदानीं हृषीकेशो नि बडारण्यानीपरिवृतः साधनभजना-