पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः वृन्दावनस्थानन्तरं हरिद्वारे ब्रजन् स हाथरसे समागतः । धूम्र- यानालयस्य यानस्थाने (प्लैटफार्म ) एकत्र कोणे शान्तः समुपविष्टो- ऽभवत् । बुभुक्षया पिपासया च शरीरमवासीदत् । तदानीमेव धूम्रयानालयोपाध्यक्षस्य ( असिस्टेण्ट-स्टेशन मास्टर ) शरच्चन्द्रगुप्तस्य दृष्टिः स्वामिन उपरि पपात । स चकित उत्तस्थौ । प्रदीप्तः पावक इव कोऽयं सौम्यः ? पश्यन्नेवासौ परिज्ञातवान्; "अहो बत! एतादृशः साधुः कदापि मम न दृष्टिगोचरीभूतः ।” ९९ कौतूहलवशात् तेन पृष्टम् - "किं भवतो भोजनमभवत् ?" भोजनं नाभूदिति परिज्ञाय विशिष्टयाऽऽन्तरिकतया तेन स्वामी महोदयः स्वगृहमानीतः । क्रमशः परिचयो घनिष्ठतायां परिणतः । स्वामिना सह यावतो घनिष्ठता प्रावर्धत, तावानेवासौ मुग्धो बभूव । स्वामिनो ललाटे भग- वता स्वहस्तेनैव राजतिलकोऽङ्कित: । कुत्राप्यसावात्मानं गोपयित्वा रक्षितुं न शशाक । तदीया लावण्यमयी मूर्त्तिः सर्वेषां मनुष्याणां दृष्टि श्रद्धां चाचकर्ष । परिव्राजकजीवने प्राय: स्वामी दिनत्रयाधिकमेकत्र न न्यवात्सीत् । किन्तु हाथरसे तस्य विविधधर्मप्रसंग सुमधुर संगीतं च समाकर्ण्य स्थानीया उच्चपदस्थमानवा एतावदधिकमाकृष्टा यत्ते स्वामिनं कथञ्चिदपि परित्यक्त नैच्छन् । सर्वेषामनुरोधेन स्वामिना कियन्तो दिवसास्तत्रैव व्यतियापिताः । दिनानुदिनमधिकाधिकजनास्त- दीयमुख निर्गतां वाणों श्रोतुमागच्छन् । अनेन युवकेन संन्यासिना समस्तोऽपि हाथरसो धर्मभावेन मुग्धतां निन्ये । शरबाबूमहाशय * एकस्मिन् दिने शिष्यवद् विनोतो भूत्वा छ अयमेवानन्तरं स्वामिसदानन्दरूपेण स्वामिनः प्रथमः संन्यासी शिष्यः संवृत्तः। तेन प्रोक्तं यत् स्वामिनो नयने विशेषरूपेण तमाचकर्षतुः, प्रथम- दर्शनादेव तस्मिन् विशिष्टा श्रद्धा अनुरागश्च प्रादुर्चभूवतुः ।