'युगाचार्य - विवेकानन्दः वृन्दावनस्यैकयाऽपरघटनयाऽपि स्वामिनो मनसि गभीरः प्रभावः पातितः । स राधाकुण्डं प्रापत् । एकमात्रमावरणवस्त्रमेव सम्बलमासीत् । तच्च कुण्डजले प्रक्षाल्य शोषयितुं सूर्यदोधितौ प्रासारयत्, सच स्नानार्थमवातरत् । स्नानानन्तरं तेन दृष्टं यद् वस्त्रं तत् तत्र नास्ति । स्थानं तन्निर्जनमासीत् । अवागसावपश्यत् यदेको वानरस्तस्य वस्त्रमादाय वृक्षस्य समुन्नतशाखायामेकस्यां गत्वोपविष्टोऽस्ति । तस्यान्तःकरण- मसन्तोषेण वेदनया च परिपूर्णमभवत् । बहुविलम्वतः प्रतीक्षया न किञ्चित्फलमभूत् । वस्त्रालाभात् तस्य हृदयमतिदुःखितं जातम्, कुण्डस्य चाधिष्ठातृदेवतायां राधायां राज्ञ्यामसौ क्षुब्धो बभूव । एतदीय- राज्ये ताशोऽत्याचारः ! जनस्थानाभिमुखमगत्वा स वनाभिमुखं प्रचचाल । किञ्चिद्दूरं गतोऽसावशृणोत् यत् पृष्ठतः कश्चिदाह्वयतीव । मुखं परिवर्त्य नासौ विलोकितवान् । क्रमशः कण्ठस्वरोऽयं निकटवर्ती बभूव । एको मानवः शीघ्रमागत्य तदभिमुखमुपस्थितः । तस्य मनुष्यस्य हस्तयोर्गैरिकं वस्त्रं खाद्यवस्तूनि चासन् । अविलम्चेनैव स्वामिना- ऽवधारितं यदियं राधाराज्ञीलीला विद्यते । चिन्मयधाम्रो वृन्दावनस्य महत्त्वं तस्याभ्यन्तरे परिपूर्णमभवत् । चिन्मयस्य श्यामस्य चिन्मय्या राधाराज्ञ्याश्चावस्थितिमनुभूय स विशेषमाननन्द |* “नित्यो भगवान् नित्यं धाम नित्यो भक्तः । ”
- स हि पूर्व श्रीकृष्णं श्रीराधां चैतिहासिकव्यक्ति नामन्यत । श्री ठाकुरेण
सह तेनाने के तर्कवितर्काः कृताः । श्रीकृष्णलीलाया अतिशयकठोरा समालोचना विहिता | श्रीठाकुरेण नरेन्द्रस्य तर्कमाकर्ण्य प्रोक्तम्– “अतिशोभनम्, श्रीकृष्ण- राधास्वीकारस्य नास्ति ते प्रयोजनम् । किन्तु तयोर्भावं ग्रहीतुं शक्नोषि । तयोर्भाव आश्रयणीयस्त्वया ।” श्रीठाकुरस्य वचनं सत्यमभूत् । स्वामिना श्रीराधाकृष्णौ केवलं स्वीकृतावेव न हि, प्रत्युत तस्य हृदये भावधनरूपेण तो प्रविश्य तं विह्वलमकुरुताम् ।