सामग्री पर जाएँ

पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः नुकूलविविक्त स्थानमासीत् । तस्यान्तःकरणे हिमालयस्य गभीरप्रदेशे केदारनाथवद्रीनारायणयोदर्शनेहा समुद्भूत् । १०१ तदानीं हृषीकेशजलवायू स्वास्थ्यजनको नास्ताम् । मलेरिया- ज्वरस्य प्रवल: प्रभाव आसीत् । एककालभिक्षालग्रहणेन उभयोः शरीरे अत्यन्तं क्षोणे दुर्बले च बभूवतुः । एतस्मिन्नेव समये शिष्यः कठिन- रोगेण समाक्रान्तोऽभवत् । स्वामी वैराग्यवान किश्वनः संन्यासी आसीत् । शिष्यम्य प्राणरक्षायामसौ विकलो जातः । सेवाशुश्रूषादिभिः शिष्यस्य नीरुजीकरणमेव तस्य चिन्ताविषयोऽभवत् । तदानीन्तनदशां वर्णयन् शरद्बाबृमहाशयः प्रोवाच - "अहं तु रुग्णोऽभवम् । स ममोपानत्स- हितसमस्तवस्तूनि : निरापदि स्थानेऽतिवाह्य समानयत् । तेन सह तस्य प्रेम्णः स्नेहस्य कथां किं निवासे मृत्युरपि तुच्छः प्रतीतोऽभूत् । कथयेयम् । स तु प्रम्गोऽवतार आसीत् ।” स्वामिनः प्रणयेनासौ सर्वकालकृते भृत्यो बभूव । शरद्वाचूमहोद- यस्य गुरुभक्तिरेतादृशो गभीरा आसीत् यदसौ साभिमानमवोचत्- “अहं स्वामिनः सारमेयोऽस्मि ।” प्रभुभक्तेः प्रतीकः कुक्कुर एव भवति ।.. शिष्यस्य रुग्णतया केदारबदरीदर्शनसंकल्पं परित्यज्य स्वामी किञ्चिद्दिनानन्तरमेव हाथरसं प्रत्याजगाम पुनः स्वामिनमधिगत्य हाथरसनिवासिनामानन्दस्य सीमा नासीत् । कियदिवसानन्तरं स्त्रामो मलेरियासमाक्रान्तो जातः । शरदबाबूमहाशयः पुनरपि रुग्णोऽभवत् । दैवयोगेन तदानीमेव काले स्वामिनो गुरुभ्राता स्वामी शिवानन्दो वृन्दावनमार्गेण हाथरसमाययौ । स्वामिनमस्वस्थमवलोक्य बराहनगरमठं प्रतिगमयितुमसावाग्रहमकरोत् । तत्र मठे स्वामिनोऽस्वस्थतासमाचारे प्राप्ते तदीया गुरुभ्रातरः प्रत्यागमनाय तस्मै पत्रं लिखितवन्तः । दुर्बलेनैव शरीरेण स स्वामिना शिवानन्देन साकं बराहनगराभि-