पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४७
प्रथमः सर्गः ।


जाता निखिलवेदानामुत्तमाङ्गोपधानतः ।
त्वत्पादकमलादेषा त्वदेकाधीनधारणा ॥ ७९ ॥

अथ त्वत्पादोत्पन्नत्वात त्वयैव रक्षणीयेत्याहुः-जातेति । निखिल- वेदानाम् । उत्तमाजानां शिरसामुपनिषदां उपधानतः प्रतिपाद्यत्वेन समाश्र- यणीयतया उपधानभूतात् । 'अपादाने चाहीयरहोः' इति तसिः । त्वत्पाद- कमलात् त्वत्पादपद्मात् । जाता एषा देवी । त्वदेकाधीनधारणा त्वदेकायत्त- भरणकृत्या। अत्र भगवत्पादकमलस्य वेदानामुत्तमाङ्गोपधानत्वरूपणात् वेदानां तदाश्रयनितपुरुषत्वरूपण गम्यत इति एकदेशविवर्तिरूपका- लङ्कारः । त्वत्पादकमलादित्यत्रोपमाचेति तयो संसृष्टिः ॥ ७९ ॥

यदि न त्वरते नाथ भारव्यपनये भवान् ।
प्लावयिष्यन्त्युदन्वन्तः पृथिवीं पृथुवीचयः ॥ ८० ॥

यदीति । हे नाथ, भवान् । भारव्यपनये भूभारावतारणे । यदि न त्वरते यदि विलम्बते। तदा, पृथुवीचयो महातरजाः । उदन्वन्तः। पृथिवी प्लावयिष्यन्ति सेचयिष्यन्ति । भारेण भुवि मद्ध्ये नमितायां निम्नप्रवणजला जलनिधयस्ता मनयिष्यन्तीत्यर्थः ॥ ८ ॥

करुणाधीनचित्तेन कर्णधारवती त्वया ।
मावसीदतु पृथ्वीयं महती नौरिवाम्भसि ॥ ८१ ॥

करुणेति। करुणाधीनचित्तेन दयापरतन्त्रहृदयेन। त्वया। कर्णधारवती नाविकवती । कर्णधारस्तु नाविकः' इत्यमरः । इय पृथिवी । महती नौरिव । अम्भसि सागरोदके । मावसीदतु अवसन्ना माभूत् । “ माडि लुङ्” इत्यत्र गृहीतान्माडोऽन्यः केवलोऽय माशब्दः प्रतिषेधार्थ इति लोडपपत्तिः ।