पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४८
यादवाभ्युदये


त्वयि कर्णधारकल्पे जाग्रति नाव इव भूमेरम्भस्यवसादो न युक्त इत्यर्थः । अत्र भगवति कर्णधारत्वारोपस्य पृथिव्यवसादपरिहरणरूपप्रस्तुतकार्यों- पयोगात् परिणामः तत्संकीर्णोपमाचालंकारः ॥ ८१ ॥

रशनारत्नरूपेण पयोधिरशना त्वया ।
प्रशान्तदनुजक्लेशा परिष्करणमर्हति ॥ ८२ ॥

रशनेति । पयोधिरशना समुद्रमेखला पृथिवी। रशनारत्नरूपेण समु. द्रशायित्वेन पृथ्वीमेखलाया रत्नतुल्येन । त्वया। प्रशान्तदनुजक्लेशा सती। परीष्करण प्रसाधनम् । अर्हति । क्लेशमनुभवन्न्याः कि परिष्करणेनति दैत्यो- पसहारेण क्लेशमपनीय परिकरणीयेति भावः । 'निभमंकाशनीकाशप्रतिका- शोपमादयः' इत्यमरकोशव्याख्यातृभिरादिशब्देन भूतरूपकल्पादीनां ग्रहणमित्युक्तेरत्र रूपशब्दस्तुल्यवाची । अत एव उपमोपक्रमोत्प्रेक्षा- लंकारः। तस्य स्वरूपवाचित्वे तु रशनारत्नत्वारोप परिष्करणकार्योप- योगीति परिणामालंकारः ॥ ८२ ॥

कंसप्रभृतिभिस्सेयं शल्यैरिव समुद्धृतैः ।
चिरं भवतु ते पृथ्वी शेषमूर्तेः शिखण्डकः ॥ ८३ ॥

कंसेति । सा तथा क्लेशमनुभवन्ती। इय सन्निहिता पृथ्वी । शल्यः अन्तःप्रविष्टैः शरैरिव । समुद्धृतैः । कंसप्रभृतिभिः । चिरम् । ते तव । शेषात्मिकाया मूर्तेः शिखण्डकः काकपक्षः । भवतु । दैत्यो- पसहारेण लाघव प्राप्ता भूमिः । शेषस्य शिखण्डकवत् सुवहा भव- त्वित्यर्थः । अनेन दैत्यानुपसहारे शेषस्यापि महाभार इति सूचितम् । शल्यैरिवेत्युपमा शिखण्डक इति रूपकं चति तयोः संसृष्टिः। समुद्धृतैः ।