पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६
यादवाभ्युदये

त इमे क्षत्रिया भूत्वां क्षोभयन्ति क्षमामिमाम् ।
नव तेजसि यैर्नाथ दनुजैश्शलभायितम् ॥ ७७ ॥

त इति । हे नाथ, तव तेजसि तेज: प्रताप एव तेजः अग्निः 'तेजो चले प्रताप च रोचियचिपि रेतसि । नवनीतऽनले धर्म' इति यादवः । तस्मिन् , पै. दनुज । शलभायित शलभवदाचरितम् । त इमे क्षत्रिया भूत्वा, इमां क्षमां पृथिवीम् । क्षोभयन्ति । शलभायितमित्यत्र उपमा तेजसीनि पमूलाभेदाध्यवसायरूपा अतिशयोक्तिश्चेति संकरः॥ ७७ ॥

चतुर्णा पुरुषार्थानां प्रसवो यत्समाश्रयात् ।
हव्यकव्यप्रमूरेषा दीर्यते दैत्यभारतः ॥ ७८ ॥

चतुर्णामिति । चतुर्णा धर्मादीनां पुरुषार्थानाम् । यत्समाश्रयात् यस्यास्समाश्रयणात् । प्रनवः उत्पत्तिः । भूमि आश्रित्य हि यज्ञादयो धर्मास्सपादनीयाः मनुष्याधिकारत्वात् , तन्मूलौ चेह परन चार्थकामी, मोक्षोऽपि विद्याद्वारा तत्सापेक्षः, विविदिषन्ति यज्ञेन दानेन' इत्यादिश्रुतेः । अतः पुरुषार्थचतुष्टयम्यापि क्षिल्याश्रयणेनैवात्पत्तिरिति भावः । एषा हव्य- कव्यप्रसूः हव्य देवार्थमन्न कव्य पित्रर्थ 'हव्यकव्ये दैवपित्र्ये अने' इत्यमरः । ते प्रसूत इति हव्यकव्यप्रसूः सर्वोषधीनां दोग्ध्री भूमिः । 'सत्सूद्विषट्ठह' इत्यादिना विप्। दैत्यभारतः दैत्यानां भारेण । 'आद्यादिभ्य उपसख्यानम्' इति तसिप्रत्ययः । दीर्यते। दृ विदारण इति धातोः कर्मकर्तरि यक्प्रत्ययः । दिवादिगणापरिसमाप्तेः श्यन्प्रत्ययो वा । अतः सर्वथा सर्वपुरुषार्थोपयो- गिनीयमवश्यं रक्षणीयेति भावः ॥ ७८ ॥