सामग्री पर जाएँ

पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१
प्रथमः सर्गः।


वदतां याचमानानाम्। प्रायः प्रसीदन् भृश सन्तुष्यन् । ललितध्वनिभिः मञ्जुलखनैः । लक्ष्मीलीलाकमलषट्पदैः लक्ष्म्याः क्रीडाकमलगतैभ्रमरैः । प्रत्युवाच । त प्रति देहीति याचनसमय एव महता तस्य वितरणेन याचकेषु सन्निहितायाः श्रियः क्रीडापद्मभृङ्गरव एव तत्प्रतिवचनमासी- दित्यर्थः । अत्र लक्ष्मीलीलाकमलषटपदध्वनीनामसवन्धेऽपि तत्सबन्ध- कथनादतिशयोक्त्यलङ्कारः । अतिशयोक्तिसिद्धे षट्पदध्वनने प्रति- वचनत्वारोपस्य प्रकृतोपयोगात् परिणामालङ्कारः । तथाभूतमेय तेषु तत्प्रतिवचन न तु लौकिकप्रतिवचनविलम्ब इति परिसंख्या- लङ्कारः॥२१॥

स च वृत्तविहीनस्य न विद्यां बहमन्यत ।
न हि शुद्धेति गृह्येत चतुर्थीचन्द्रचन्द्रिका ॥ २२ ॥

स इति। किञ्चेति चार्थः । स यदुः। वृत्तविहीनस्य आचारविहीनस्य । विद्यां वेदादिरूपम् । न बह्वमन्यत न बहुमेने । 'न विद्यया केवलया तपसा वापि पात्रता । यस्य वृत्तमिमे चोभे तद्धि पात्र प्रचक्षते।' इति स्मृतः केवलविद्यया पात्रत्वाभावात् न तामाद्रियतेत्यर्थः । अत्र दृष्टान्त- माह-न हीति । चतुर्थीचन्द्रस्य चन्द्रिका । शुद्धा विमलेति। नहि गृह्येत । नहीत्यखण्ड पद नार्थ वर्तते । 'अभावे नहि नो नापि' इत्यमरः । विभक्त एव वा। हिशब्द उक्तार्थप्रसिद्धिद्योतकः । चतुर्थीति भाद्रपदशुक्ल- चतुर्थी विवक्षिता । कन्यागतचतुर्थ्यान्तु शुक्ले चन्द्रस्य दर्शनम् । मिथ्या- भिदूषणं कुर्यात् तस्मात् पश्येन तं तदा।' इति तस्यां चन्द्रदर्शननिषे- धात् ॥ २२ ॥

अपुनःमार्थनीयस्य प्रार्थिताधिकदायिनः।
अर्थिनः प्रथमे तस्य चरमान् पर्यपूरयन् ॥ २३ ॥