पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०
यादवाभ्युदये


स्त्रिशदेते त्रयश्च ।' इत्युक्तंषु त्रयस्त्रिंशत्संचारिषु आलस्यांग्यसरणव- जिताः सञ्चारिणः, रतिभावे स्थायितयानुवर्तमाने तस्मिन् मध्ये आग- मापायितया तत्परिपोषकत्वरूपसहकारित्वात् । एवं हास्यरसे 'हासात्म- क: चित्तविकासविशेषः स्थायीभावः। विकृतवेपालङ्कारधा:यचेष्टालोल्यकु- हनावत्प्रलापव्यङ्गदर्शनादयो विभावाः । औष्टविवरणदशनदर्शनाननविकू- णननासाविकृतिकपोलस्पन्दनापार्श्वग्रहणादयोऽनुभावाः । अवहित्थालस्य- तन्द्रीनिद्राप्रभृतयः सञ्चारिण इति । एवप्रकारेण प्रतिरस तदर्था विभावादयो व्यवतिष्ठन्त इति भव्या इत्युक्तम् । अत्र एकस्यैवानेकोपमानोपादानात् उपासनरूपसाधारणधर्मस्य सर्वत्रेकत्वाचाभिन्नसाधारणधर्ममालोपमा- लङ्कारः॥ १९॥

यदुर्नाम ततो जज्ञे यत्सन्ततिसमुद्भवैः।
समानगणनालेख्ये निस्समानैर्निपद्यते ॥ २० ॥

यदुरिति । ततो ययातेः । यदुर्नाम यदुरिति प्रसिद्धः । जज्ञे । यत्स- न्ततिसमुद्भवः यद्वशप्रभवै. । निस्समानेः अप्रतिमैः। पार्थिवे । समानगण- ना इमे समाना इति गणना। आलेख्ये चित्रे। निषद्यते अधिष्टीयने प्राप्यत इति यावत् । निपूर्वात्सीदतेः कर्मणि लट् । ' सदरप्रतेः' इति षत्वम् । स- मानगणना क्रियते चेत् आलेख्यगततत्तत्प्रतिमास्वेव नान्यत्रेत्यर्थः । अत्र यदुभिः साम्यस्य पार्थिवान्तरादिष्वनेकेषु सभाव्यमानस्यैकत्रालेख्य एव नियमनात् परिसंख्यालङ्कारः ॥ २० ॥

देहीति वदतां प्रायः प्रसीदन् प्रत्युवाच सः ।
ललितध्वनिभिलक्ष्मीलीलाकमलषट्पदैः ॥२१॥

अथास्य वितरण श्लोकत्रयेण वर्णयति । देहीति । स यदुः । देहीति