पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२
यादवाभ्युदये


अपुनरिति । एकवारं प्रार्थिते पुनरप्रार्थनीयस्य । प्रार्थिताधिकदा- यिनः यावत् प्रार्थितं ततोऽयधिकं दातुं शीलवतः । ताच्छीलिको णिनिप्रत्ययः । तस्य यदोः । प्रथमे अर्थिनः प्रथमागता याचकाः । प्रथमचरमतयेत्यादिना वैकल्पिकी सर्वनामसंज्ञा । चरमान् पश्चादागतान- र्थिनः । पर्यपूरयन् परिपूर्णानकुर्वन् । यदुर्यथार्थिभ्यः प्रयच्छति तथा प्रदातु तदर्थिन एव समर्था आसन्निति तस्य महावदान्यत्व व्यअयति ॥ २३ ॥

शराणां शात्रवाणां च सन्धानेन महौजसः।
तस्य निर्धेतलक्षेण द्विः कचिन्नाप्यभूयत ॥ २४ ॥

शराणामिति । महौजसो महाबलस्य । 'ओजो बले च दीप्तौ च' इति विश्वः । तस्य यदोः । निधूतलक्षेण निरस्तशरव्येण, निरस्तच्छद्मना च। 'लक्ष शरव्ये संख्यायां लक्ष छद्मनि कथ्यते' इति प्रकाशः। एवभूतेन, शराणां शात्रवाणां च सधानेन । क्वचिदपि। द्वि भूयत । तस्य प्रथमशरस. धानमेव लक्ष्यघातकमिति पुनश्शरसधान न कर्तव्यमासीत् । तथा तस्य सभ्यर्थिषु शात्रवेषु सधान निष्कपटम् , न त्वग्रे वाधनाय छद्मना विश्वासापा- दकमिति तदपि पुनर्न कर्तव्यमासीदित्यर्थः । अत्र वर्णनीयराजसंबन्धि- तया प्रस्तुतयोश्शरशात्रवसन्धानयोः एकक्रियान्वयरूप तुल्ययोगिता- लङ्कारः । स च लक्षशब्दश्लेषानुप्राणित इति सङ्करः ॥ २४ ॥ युक्तदण्डममित्राणां कृतान्तं समवर्तिनम् । दक्षिणं लोकपालं तममन्यन्त दिवौकसः ।। २५ ।। युक्तदण्डमिति । दिवौकसो देवाः । दिवशब्दोऽपि स्वर्गवाचकोऽ- स्ति । तथा च प्रयोगः सुभूतिचन्द्रेणोदाहृतः । 'न शोभते तेन विना सदा पुर मरुस्वता वृत्रवधे यथा दिवम् ।' इति । ततश्च दिवमोको येषामिति